________________
११० पारस्करगृह्यसूत्रम्।
[नवमी ग्यतः स्थितो भवति । पित्रा प्रत्तामादाय गृहीत्वा निष्कामतीत्येतत्कालमारभ्यामेर्दक्षिणतः कश्चित्तिष्ठति । उत्तरत एकेषामतो विकल्पः । तत एनां मूर्द्धन्यभिषिञ्चति आपोहिष्ठेति चतसृभिरित्यन्तं सूत्रम् । आचार्य इति शेपः । अथैना५ सूर्यमुदीक्षयति तच्चक्षुरिति । सूर्यमुदीक्षस्वेविप्रेष आचार्यस्य । तच्चक्षुरितिमन्त्रेण वधू सूर्यमुदीक्षते । अथास्यै दक्षिणा समित्यारभ्य प्रजापतिष्ठा नियुनक्तु मह्यमित्यन्त सूत्रम् । अस्याः दक्षिणांसस्योपरि वाहुं नीत्वा मम व्रत इतिमन्त्रेण वर इतिशेषः । तां दृढपुरुप उन्मथ्येत्यारभ्य पूषानिपीदन्त्वित्यंतं सूत्रम् । चतुरिकायामीशान्यामनु गुप्ते आस्तीर्णे आनडुहे रोहिते चर्मणि वरो वा भ्राता वा यो बलवान् स कन्यामुपवेशयतीह गाव इति मन्त्रेणेत्यर्थः । ततः स्वस्थाने उपविश्यान्वारब्ध आचार्यः अग्नये स्विष्टकृते स्वाहेति जुहोति । इदमग्नये स्विष्टकृत इति त्यागः । संस्रवप्राशनं मार्जनं पवित्रप्रतिपत्तिः । प्रामवचनं च कुर्युः । ग्रामवचनं वृद्धस्त्रीवाक्यं विवाहे प्रमाणं तस्मात्तदर्थ कुर्युरित्यर्थः । अस्मिन्नर्थे श्रुतिः प्रमाणम् । विवाहश्मशानयोग्राम प्राविशतादिति वचनात् हेतोरित्यर्थः । उपसंहरति निगमनवाक्येन तस्मात्तयोामः प्रमाणमितिश्रुतेः । 'आचार्याय वरं ददाति ' दीयमानवरसंप्रदानप्रतिपत्त्यर्थम् । आचार्यपदमुपलक्षणं वा । तेन ब्रह्मणे पूर्णपात्रदानं वधूवस्त्रं सूर्यापाठकेभ्यः । वरशब्दार्थ विवाहे सूत्रकृदाह 'गौाह्मणस्य वरो ग्रामो राजन्यस्याश्वो वैश्यस्याधिरथर शतं दुहितृमते ' ब्राह्मणश्चेद्वरः तदा गौः, क्षत्रियश्चेद्वामः, वैश्यश्चेदश्वः, पुत्ररहितश्चेत्कन्यापिता तदा तस्मै रथाधिकं गवां शतं दत्त्वा विवाहं कुर्यात् । अस्तमिते ध्रुवं दर्शयति, ध्रुवमीक्षरवेति प्रैष आचार्यस्य । वधूभ्रुवमीक्षते । बहिहोमादिब्राह्मणभोजनान्तम् । 'निरानमक्षारालवणाशिनौ स्यातामधःशयीयाता५ संवत्सरं न मिथुनमुपेयातां द्वादशरात्र५ षडानं त्रिरात्रमन्ततः । क्षारं गुडादि । सूत्राणि निगदव्याख्यातानि ॥ इति अष्टमी कण्डिका ॥ ८ ॥ * ॥
___ उपयमनप्रभृत्यौपासनस्य परिचरणम् ॥ १ ॥ अस्तमितानुदितयोर्दमा तण्डुलैरक्षतैर्वा ॥ २ ॥ अग्नये स्वाहा प्रजापतये स्वाहेति सायम् ॥३॥ सूर्याय खाहा प्रजापतये खाहेति प्रातः ॥ ४ ॥ पुमासौ मित्रावरुणौ पुमाळसावश्विनावुभौ पुमानिन्द्रश्च सूर्यश्च पुमाउंसं वर्ततां मयि पुनः स्वाहेति पूर्वी गर्भकामा ॥ ५ ॥ ७ ॥ ९॥ ७ ॥
(कर्क:)-'उपय....."दितयोः उपयमनकुशादानादि औपासनस्य परिचरणं, व्याख्यास्यत इति सूत्रशेषः । होमेऽपि सति परिचरणग्रहणादितिकर्तव्यता न भवति । अस्तमिनानुदितयोरित्यस्तमिते चानुदिते च तत्कर्म कर्तव्यं, तञ्च सर्वदा न सकृत्क्रिया येनैवमाह ततोऽस्तमितेऽस्तमितेऽग्नि परिचर्य दयॊपघाता सत्तून् सर्पेभ्यो बलिद हरेदिति बलिहरणविधिपरे वाक्ये परिचरणस्य नित्यत्वं ज्ञापयति । हस्तेनैवात्र होमः इतिकर्तव्यताव्युदासात् । ज्युदासः कथमिति चेत् उपयमनप्रभृत्युक्तत्वात्। दन्ना तण्डुलैरक्षतैर्वा होमः । अग्नये स्वाहा प्रजापतये वाहेति सायं जुहोति । सूर्याय स्वाहा प्रजापतये स्वाहेति प्रातः जुहोति । पुमा सौ मित्रावरुणौ इति पूर्वामाहुतिं जुहोति। गर्भकामेति स्त्रीप्रत्ययनिर्देशालयेव जुहोति पूर्वाहुतिविकारश्वायम् । अत्रैवच स्त्री, उत्तराहुतौ तु यजमान एव ॥ ९ ॥
( जयरामः )-उपयमनप्रभृति उपयमनान्कुशानादायेत्यारभ्य औपासनानेः परिचरणं व्याख्यास्यत इति सूत्रशेषः । होमेऽपि च सत्युपयमनप्रभृतिग्रहणादितरेतिकर्तव्यताव्युदासः । अत एव हस्तेनैव होमः । अस्तमितानुदितयोरित्यस्तमिते च अनुदिते च तत्कर्म कर्तव्यम् । तच सर्वदा, नतु सकृत्क्रिया । येन ततोऽस्तमितेऽस्तमितेऽग्निं परिचर्य दोपघातः सक्तून्सर्पेभ्यो बलि हरेदिति