________________
१०९
कण्डिका]
प्रथमकाण्डम्। वीत् । ज्योतिर्निबन्धे कात्यायनः--कुले ऋतुत्रयादर्वाङ्मण्डनान्न तु मुण्डनम् । प्रवेशान्निर्गमी नेप्टो न कुर्यान्मङ्गलत्रयम् । कुर्वन्ति मुनयः केचिदन्यस्मिन्वत्सरे लघु । लघु वा गुरु वा कार्य प्राप्तं नैमित्तिकं तु यत् । पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः । मुण्डनं चौलमित्युक्तं व्रतोद्वाही तु मङ्गलम् । चौलं मुण्डनमेवोक्तं वर्जयेन्मण्डनात्परम् । मौजी चोभयतः कार्या यतो मौजी न मुण्डनम् । अभिन्ने वत्सरेऽपि स्यात्तदहस्तं न भेदयेत् । अभेदे तु विनाशः स्यान्न कुर्यादेकमण्डपे । संकटे तु कपर्दिकारिकासु-उद्वाह्य पुत्रीं न पिता विध्यात्पुत्र्यन्तरस्योद्वहनं कदाऽपि । यावचतुर्थ दिनमत्रपूर्व समाप्य चान्योद्वहनं विदध्यात् । काश्यपः-मौजीवन्धस्तथोद्वाहः षण्मासाभ्यन्तरेऽपि वा। पुत्र्युद्वाहं न कुर्वीत विभक्तानां न दोषकृत् । गाय:-भ्रातृयुगे स्वमृयुगे भ्रातृस्वसूयुगे तथा। न कुर्यान्मङ्गलं किश्चिदेकस्मिन्मण्डपेऽहनि। ज्योतिर्विवरणे-एकोदरयोर्द्वयोरेकदिनोद्वहने भवेन्नाशः । नद्यन्तरे त्वेकदिनं केऽण्याहुः संकटे च शुभम् । ऊर्च विवाहाच्छुभदो नरस्य नारीविवाहो न अतुत्रये स्यात् । नारीविवाहात्तदहेऽपि शस्तं नरस्य पाणिग्रहमाहुरायः । मिन्नमातृजयोस्तु एकवासरे विवाहमाह मेवातिथिः-पृथङ्मातृजयोः कार्यों विवाहस्त्वेकवासरे । एकस्मिन्मण्डपे कार्यः पृथग्वेदिकयोस्तथा । पुष्पपट्टिकयोः कार्य दर्शनं न शिरस्थयोः । भगिनीभ्यामुभाभ्यां च यावत्सप्तपदी भवेत् । यमलयोस्तु विशेषः गार्ग्य:-एकस्मिन्वासरे प्राप्ते कुर्याद्यमलजातयोः । क्षौरं चैव विवाहं च मौजीवन्धनमेव च । तथा भट्टकारिकायाम्-एकस्मिन्वत्सरे चैत्र वासरे मण्डपे तथा ! कर्तव्यं मसलं स्वस्त्रोत्रोर्यमलजातयोः इति । अथ कन्यागृहे भोजननिषेधः मदनरत्ने भविष्ये-अप्रजायां तु कन्यायां न भुञ्जीत कदाचन । दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचति । अपरार्के आदित्यपुराणेविष्णुं जामातरं मन्ये तस्य कोपं न कारयेत् । अप्रजायां तु कन्यायां नाश्नीयात्तस्य वै गृहे । यदि भुजीत मोहाद्वा पूयाशी नरकं ब्रजेत् इति ॥ ॥ अथ नान्दीश्राद्धानन्तरं धर्माः निर्णयदीपे गाय:-नान्दीश्राद्धे कृते पश्चाद्यावन्मातृविसर्जनम् । दर्शश्राद्धं क्षयश्राद्धं स्नानं शीतोदकेन च । अपसव्यं स्वधाकारं नित्यश्राद्धं तथैव च । ब्रह्मयज्ञं चाध्ययनं नदीसीमातिलचनम् । उपवासव्रतं चैव श्राद्धभोजनमेव च । नैव कुर्युः सपिण्डाश्च मण्डपोद्वासनावधि । ज्योतिषे स्नानं सचैलं तिलमिश्रकर्म प्रेतानुयानं कलशप्रदानम् । अपूर्वतीर्थामरदर्शनं च विवर्जयेन्मङ्गलतोऽन्दमेकम् । पितृणामुद्देशेन कलशदानमित्यर्थः । मासषट्कं विवाहादौ व्रतप्रारम्भणं नच । जीर्णभाण्डादि न त्याज्यं गृहसंमार्जनं तथा । ऊर्ध्व विवाहात्पुत्रस्य तथाच व्रतवन्धनात् । आत्मनो मुण्डनं नैव वर्ष वर्षामेव च । अभ्यते सूतके चैव विवाहे पुत्रजन्मनि । माङ्गल्येपु च सर्वेपु न धार्य गोपिचन्दनम् । वृहस्पतिःतीर्थे विवाहे यात्रायां संग्रामे देशविप्लवे । नगरपामदाहे च स्पृष्टास्पृष्टिर्न दुष्यति । योगियाज्ञवल्क्यान स्नायादुत्सवेऽतीते मङ्गलं विनिवर्त्य च । अनुव्रज्य सुहृद्वन्धून्नार्चयित्वेष्टदेवताम् । ब्योतिर्निबन्धे-उद्वाहात्प्रथमे शुचौ यदि वसेर्तु"हे कन्यका हन्यातजननी क्षये निजतनुं ज्येष्ठे पतिज्येष्ठकम् । पौषे च श्वशुरं पतिं च मलिने चैत्रे स्वपित्रालये तिष्ठन्ती पितरं निहन्ति न भयं तेषामभावे भवेत् । निबन्ध-विवाहात्प्रथमे पौषे आषाढे चाधिमासके । न सा भर्तृगृहे तिष्ठेचैत्रे पितृगृहे तथा । हेमाद्रौ स्मृत्यन्तरे--विवाहव्रतचूडासु वर्षम? तदर्धकम् । पिण्डदानं मृदास्नानं न कुर्यात्तिलतर्पणम् । स्मृतौ-महालये गयाश्राद्धे मातापित्रोः क्षयेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः । इति विवाहप्रयोगः समाप्तः ॥ ८ ॥
(विश्व०)- अथैना.....'कामयति । कन्यायाः दक्षिणपादेन । आचार्यापेक्षया अन्तरङ्गत्वावर इत्यर्थः । प्रतिपदं क्रमणमन्त्रानाह 'एकमिषे".."नुषजति' सूत्रम् । साकाङ्कवाद्विष्णुस्त्वानयस्वित्यस्य सर्वत्रानुषगः, वरस्य मन्त्रपाठः । निष्कमणप्रभृत्युदकुंभर स्कन्धे कृत्वा दक्षिणतोऽनेवा