________________
१०८
पारस्करगृह्यसूत्रम् ।
[ अष्टमी
कृत्वा कङ्कणपूर्वकम् । यावत्पभ्वावृतं सूत्रं तावदुकै प्रदर्शयेत् । स्वशाखोक्तेन मन्त्रेण गायत्र्या वाऽथवा जपेत् । पञ्चीकृत्य पुनः सूत्रं स्कन्धे वघ्नाति मन्त्रतः । बृहत्सामेति मन्त्रेण सूत्ररक्षां प्रकल्पयेत् ।' अर्कस्य पुरतः पश्चादक्षिणोत्तरतस्तथा । कुम्भाँच निक्षिपेत्पश्चादाग्नेयादिचतुष्टये । सवत्रं प्रतिकुम्भं च त्रिः सूत्रेणैव वेष्टयेत् । हरिद्रागन्धसंयुक्तं पूरयेच्छीतलं जलम् । प्रतिकुम्भं महाविष्णुं संपूज्य परमेश्वरम् । पाद्यार्घ्यादिनिवेद्यान्तं कुर्यान्नान्नैव मन्त्रवित् । अत्र होमप्रकारः शौनकेन प्रदर्शितः तृतीये स्त्रीविवाहे तु संप्राप्ते पुरुषस्य तु । अर्कविवाहं वक्ष्यामि शौनकोऽहं विधानतः । अर्कसंनिधिमागत्य तत्र स्वस्त्यादि वाचयेत् । नान्दीश्राद्धं प्रकुर्वीत स्थण्डिलं च प्रकल्पयेत् । अर्कमभ्यर्च्य सौर्या च गन्धपुष्पाक्षतादिभिः । सौर्या सूर्यदैवत्यया आकृष्णेनेत्यादिऋचा । स्वयं चालंकृतस्तद्वद्खमाल्यादिभिः शुभैः । अर्कस्योत्तरदेशे तु समन्वारब्ध एतया । एतया कन्यया । उल्लेखनादिकं कुर्यादाघारान्तमतः परम् । आज्याहुतिं च जुहुयात्सङ्गोभिरनयैकया । यस्मै त्वाकामकामायेत्येतयर्चा ततः परम् । व्यस्ताभिश्च समस्ताभिस्ततश्च स्विष्टकृद्भवेत् । परिषेचनपर्यन्तमयाञ्चेत्यादिकं क्रमात् । प्रार्थनामन्त्रादिविशेषमाह व्यासः --- पुनः प्रदक्षिणं कृत्वा मन्त्रमेतमुदीरयेत् । मया कृतमिदं कर्म स्थावरे जरायुणा । अर्कापत्यानि नो देहि तत्सर्वं क्षन्तुमर्हसि । इत्युक्त्वा शान्तिसूक्तानि जात्रा तं विसृजेत्पुनः । गोयुग्मं दक्षिणां दद्यादाचार्याय च भक्तितः । इतरेभ्योऽपि विप्रेभ्यो दक्षिणां चाभिशक्तितः । तत्सर्वं गुरवे दद्यादन्ते पुण्याहमाचरेत् । अत्र पञ्चमदिने कर्तव्यमुक्तं ब्रह्मपुराणे चतुर्थे दिवसेऽतीते पूर्ववत्तां प्रपूज्य च । विसृज्य होममग्निं च विधिना मानुषी पराम् । उद्वहेदन्यथा नैव पुत्रपौत्रादिवृद्धिमान् । न पशून्न च मित्राणि मङ्गलं नैव गच्छति । एवमेव द्विजश्रेष्ठ विधिना सम्यगुद्वहेत् । धनधान्यसमृद्धिश्व इच्छाशक्तिः परत्र चेति ॥ ॥ अत्रैवं संक्षेपतः प्रयोगः ॥ उक्ते आदित्यवारादौ उक्ते देशे यथोक्तार्कसमीपे गत्वाऽऽचम्य देशकालौ, संकीर्त्य मम तृतीयमानुषीविवाहजदोषाभावार्थमर्कविवाहं करिष्ये इति संकल्प्य - आचार्यवरणस्वस्तिवाचनायुक्तक्रमेण कुर्यात् । अत्र होमे विशेषः -- देशादि संकीर्त्यार्कविवाहाङ्गभूतं होमं करिष्ये ततोऽग्निस्थापनाद्याधारान्तं कृत्वा आज्येन षडाहुतीर्जुहुयात् । संगीभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणंनिनाय । जनेमित्रानदम्पती अनकि वह स्पतेवाजयाशूरिवाजौ स्वाहा । इदं बृहस्पतये नमम । यस्मैत्वाकामकामायवयंसम्राड्यजामहे । तमस्मभ्यं कामं दत्वाऽथेदं त्वं घृतं पिब स्वाहा । इदमग्नये नमम | भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहा। त्यागा उक्ताः । ततः स्विष्टकृन्नवाहुस्त्यादिशेषं समापयेत् ततः प्रदक्षिणप्रार्थनादिकर्मशेघसमापनम् । इत्यर्कविवाहः ॥ ॥ अथैकक्रियानिर्णयः तत्र । वृद्धमनुः --- एकमातृजयोरेकवत्सरे पुरुषस्त्रियोः । न समानक्रियां कुर्यान्मातृभेदे विधीयते । अत एकस्य पुंसो विवाहद्वयमेकवत्सरे निषिद्धं मातृभेदाभावात् । नारदः --- पुत्रोद्वाहात्परं पुत्रीविवाहो न ऋतुनये । न तयोर्व्रतमुद्वाहान्मण्डनादपि मुण्डनम् । वराहः---विवाहस्त्वेकजातानां षण्मासाभ्यन्तरे यदि । असंशयं त्रिभिर्वर्षैस्तत्रैका विधवा भवे त् । वसिष्ठः -- पुंविवाहोर्ध्वमृतुत्रयेऽपि विवाहकार्य दुहितुः प्रकुर्यात् । न मण्डनाच्चापि हि मुण्डनं च गोत्रैकतायां यदि नाव्दभेदः । एकोदरभ्रातृविवाहकृत्यं स्वसुर्न पाणिग्रहणं विधेयम् । षण्मासमध्ये मुनयः समूचुर्न मुण्डनं मण्डनतोऽपि कार्यम् । एतदपवादोऽप्यत्रैव तुत्रयस्य मध्ये चेदन्यान्दस्य प्रवेशनम् । तदा ह्येकोदरस्यापि विवाहस्तु प्रशस्यते । सारावल्याम् — फाल्गुने चैत्रमासे तु पुत्रोद्वाहोपनायने । भेदादब्दस्य कुर्वीत नर्तुत्रयविलम्बनम् । संहिताप्रदीपे - ऊर्ध्वं विवाहात्तनयस्य नैव कार्यों विवाहो दुहितुः समार्द्धम् । अप्राप्य कन्यां श्वशुरालयं च वधूं प्रवेश्यात्स्वगृहं नचादौ । वसिष्ठः-द्विशोभनं त्वेकगृहेऽपि नेष्टं शुभं तु पश्चान्नवभिर्दिनैस्तु । आवश्यकं शोभनमुत्सवो वा द्वारेऽय वाऽऽचार्यविभेदतो वा । एकोदरप्रसूतानां नाभिकार्यत्रयं भवेत् । भिन्नोदरप्रसूतानां नेति शातातपोऽत्र