________________
hosar ]
प्रथमकाण्डम् |
१०७
J
पत्नीसंनहनादि तु कर्तृसंस्कारकं सहाधिकृताभिः सवर्णाभिरित्यादि मीमांसा मांसलमनसां सुज्ञानम् । द्वितीयादिविवाहेऽग्निनियममाह होमाय कात्यायनः —— सदारोऽन्यान्पुनर्दारानुद्वोढुं कारणान्तरात् । यदीच्छेदग्निमान्कुर्वन्क होमोऽस्य विधीयते । स्वाम्ग्नावेव भवेद्धोमो लौकिके न कदाचनेति । अयं च नियमः संभवे । ग्रामान्तरादावसंभवे तु लौकिकानौ । मत्र द्वितीयादिविवाहे जीवत्पितृकोऽपि स्वयमेव नान्दीश्राद्धं कुर्यात् । नान्दीश्राद्धं पिता कुर्यादाचे पाणिग्रहे पुनः । अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकमिति स्मृतेः । तत्र पितृवर्ग विहाय मातृमातामहवर्गयोः कुर्यात् । मातरि जीवत्यां मातामहवर्गस्यैव । तस्मिन्नपि जीवति द्वारलोपाद्वृद्धिश्राद्धलोप एव । सोऽपि साग्निकञ्श्वेद्येभ्यः पिता दद्यात्तेभ्यः स्वयमपि दद्यात् 'येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुनः इति वचनात् । अन्ये तु असाग्निकोऽपि पितृदेवताभ्यो दद्यान्नतु लोपः ' वृद्धौ तीर्ये च संन्यस्ते ताते च पतिते सति।येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः' इति मैत्रायणीयपरिशिष्टादित्याहुः । द्वितीयादिविवाहे कालविशेषः संग्रहे ' प्रमदामृतिवासरादितः पुनरुद्वाहविधिर्वरस्य च । विपमे परिवत्सरे शुभो युगले चापि मृतिप्रदो भवेत् । जीवन्त्यां पूर्वपत्न्यां द्वितीयादिविवाहे नायं काल - नियमः ॥ ॥ अथ तृतीयमानुषीविवाहस्य निषिद्धत्वात्तस्मिन्कर्तव्येऽर्कविवाहविधिः । तृतीयादिनिपेधमाह काश्यपः - तृतीयां मानुपी नैव चतुर्थी यः समुद्वहेत । पुत्रपौत्रादिसंपन्नः कुटुम्बी सानिको वरः । उद्वहेद्रतिसिद्धचर्थे तृतीयां न कदाचन । मोहादज्ञानतो वाऽपि यदि गच्छेत्तु मानुपीम् । नश्यत्येव न संदेहो गर्गस्य वचनं यथा । अन्यत्रापि ' तृतीयां यदि चोद्वाहेत्तर्हि सा विधवा भवेत् । संग्रहे । ' तृतीयां यदि चोद्वाहेत्तर्हि सा विधवा भवेत् । चतुर्थादिविवाहार्थतृतीयार्क समुद्वहेत् । आदित्यदिवसे वाऽपि हस्तर्क्षे वा शनैश्चरे । शुभे दिने वा पूर्वाह्णे कुर्यादर्कविवाहकम् ' | देशादि ब्रह्मपुराणे दर्शितम् ' ग्रामात्माच्यामुदीच्यां वा सपुष्पफलसंयुतम् । परीक्ष्यार्क ततोऽधस्तात्स्थण्डिलादि यथाविधि ' व्यासः। स्नात्वाऽलङ्कृतवासास्तु रक्तगन्धादिभूषितम् । सपुष्पफलशाखैकमर्कगुल्मं समाश्रयेत् । सल्लक्षणेन संयुक्तमर्के संस्थाप्य यत्नतः । अर्ककन्याप्रदानार्थमाचार्य कल्पयेत्पुरा । अर्क - संनिधिमागत्य तत्र स्वस्त्यादि वाचयेत् । नान्दीश्राद्धे हिरण्येन अष्टवर्गान्प्रपूजयेत् । पूजयेन्मधुपर्केण वरं विप्रस्य हस्ततः । यज्ञोपवीतं वस्त्रं च हस्तकर्णादिभूषणम् । उष्णीषगन्धमाल्यादि वरायास्मै प्रदापयेत् । स्वशाखोक्तप्रकारेण मधुपर्के समाचरेत् । ब्रह्मपुराणे -- यथाविधीत्यस्यानन्तरं कृत्वाऽकै पुरतस्तिष्ठन्प्रार्थयेत द्विजोत्तमः । त्रिलोकवासिन् सप्ताश्व छायया सहितो रखे । तृतीयोद्वाहजं दोपं निवारय सुखं कुरु । तत्राध्यारोप्य देवेशं छायया सहितं रविम् । वस्त्रैर्माल्यैस्तथा गन्धैस्तन्मन्त्रेणैव पूजयेत् । तन्मन्त्रेणा कृष्णेनेत्यादिना । अन्यत्रापि श्वेतवस्त्रेण संवेष्य तथा कार्पासतन्तुभिः । गन्धपुष्पैः समभ्यर्च्याप्यब्लिङ्गैरभिषिच्य च । गुडौदनं तु नैवेद्यं ताम्बूलं च समर्पयेत् । अर्के प्रदक्षिणं कुर्वन् जपे - न्मन्त्रमिमं बुधः । मम प्रीतिकरा येयं मया सृष्टा पुरातनी । अर्कजा ब्रह्मणा सृष्टा अस्माकं परिरक्षतु । पुनः प्रदक्षिणां कुर्यान्मन्त्रेणानेन मन्त्रवित् । नमस्ते मङ्गले देवि नमः सवितुरात्मजे । त्राहि मां कृपया देवि पत्नीत्वं मे इहागता । अर्क त्वं ब्रह्मणा सृष्टः सर्वप्राणिहिताय च । वृक्षाणामादिभूतस्त्वं देवानां प्रीतिवर्द्धनः । तृतीयोद्वाहजं पापं मृत्युं चाशु विनाशय । ततश्च कन्यावरणं त्रिपुरुषं कुलमुच्चरेत् । आदित्यः सविता सूर्यः पुत्री पौत्री च नत्रिका । गोत्रं काश्यप इत्युक्तं लोके लौकिकमाचरेत् । सुमुहूर्तेऽर्के निरीक्षेत स्वस्तिसूक्तमुदीरयन् । आशीर्भिः सहितः कुर्यादाचार्यप्रमुखैर्द्विजैः । अथाचार्य समाहूय विधिना तन्मुखाच्च ताम् । प्रतिगृह्य ततो होमं गृह्येोक्तविधिनाऽऽचरेत् । आचार्यस्य दानमन्त्रमाह व्यासः --- अर्ककन्यामिमां विप्र यथाशक्ति विभूषिताम् । गोत्राय शर्मणे तुभ्यं दत्तां विप्र समाश्रयेति । अञ्जल्यक्षतकर्माणि