________________
१०६ पारस्करगृह्यसूत्रम् ।
[अष्टमी पवेशनादिसर्वप्रायश्चित्तान्ते विशेषः । आसादने चरोरभावः । शूर्प शमीपलाशमिश्रा लाजाः । दृषदुपले च । आनडुहम् । भ्राता । वरश्च । पर्युक्षणान्ते आधारादि सर्वप्रायश्चित्तान्तम् । राष्ट्रभूदादीनामिच्छया होमः । राष्ट्रभृद्धोमे तापा० स न इदं० इति प्रथमः । तस्यौपधय इति द्वितीयः । एवमग्रेऽपि । ततो जयाहोमः । तत्र चित्ताय स्वाहेति चतुर्थ्यन्तेन प्रयोग इति श्रीअनन्तोदाक्षायणयज्ञे स्वाहाकारः सर्वत्र साकांक्षत्वादिति सूत्रे । नेति गर्गः । ततोऽभ्यातानहोमः । ततोऽग्निरैवित्याहुतिचतुष्टयम् । परं मृत्येविति चात्र । ततः कुमार्या हस्तयोरुपस्तरणम् भ्रातुः । माता कुमारीहस्तलेपनं ददाति । लाजानामावपेनमञ्जलौ । प्रत्यभिधारणम् । सव्यसंहतेन दक्षिणेन होमः । इदमर्यम्णे इति प्रथमस्य त्यागः । द्वितीयतृतीययोरमये । अर्यमणमिति त्रयाणां मन्त्राणां पाठो वरस्य । पाणिग्रहणम् । अश्मानमारोहखेति प्रैषपूर्वकमारोहणम् । परिक्रमणम् । एवं वारद्धयं लाजादि परिक्रमणान्तम् । भगाय स्वाहेत्यनेन विप्राहं वारत्रयं होमः । तूष्णी परिक्रमणम् । प्रजापतये होमः । सप्तपदानि । अभिषेकः । ततस्तिसृभिश्च प्रैषपूर्वकं सूर्यावेक्षणम् । हृदयालम्भः । अभिमन्त्रणम् । शकटे चर्मास्तीणें वरः कन्यामुपवेशयति । स्विष्टकृद्धोमः । संस्रवभक्षः । परंमृत्यवित्यत्र वा होमः । मार्जनम् । पवित्रप्रतिपत्तिः । ब्रह्मणे दक्षिणादानम् । आचार्याय गोदानम् । अस्तमिते ध्रुवं दर्शयति प्रैषपूर्वक ध्रुवमसीति वध्वाः पाठः । बहिहोमः प्रणीताविमोकः । कर्मापवर्गे समिदाधानम् उत्सर्जनम् ब्रह्मणः उपयमनकुशानामनौ प्रक्षेपः । ब्राह्मणभोजनम् । इति गर्गमते विशेषः । अथ पुनर्विवाहः । कृते विवाहे पञ्चाङ्गशुद्धिराहित्यादिदोषश्चेत् ज्ञातः तदा ज्योतिःशास्त्रोक्तकालविशेषे पुनर्विवाहः कार्यः। तदाह नृसिंहः श्रीधरीये-पुनर्विवाहं वक्ष्यामि दम्पत्योः शुभवृद्धिदम् । लग्नेन्दुलग्नयोदोपे ग्रहतारादिसंभवे । अन्येष्वशुभकालेषु दुष्टयोगादिसंभवे । विवाहे चापि दम्पत्योराशौचादिसमुद्भवे । तस्य दोषस्य शान्त्यर्थं पुनर्वैवाह्यमिष्यते । अयनं चोत्तरं श्रेष्ठं वर्द्धयेत्तु विशेषतः । आषाढमार्गशीर्षों द्वौ वज्यौं शेषाः शुभावहाः । विवाहोक्ततिथ्यन्ता राशिवारादिवर्गजाः । करणा योगसंज्ञा वै ग्रहगोचरयोगकाः । तस्मिन्विवाहसमये शुभदाश्च तथैव हि । पूर्वास्ते पूर्वरात्रे च विवाहः शुभदो भवेत् । अथ द्वितीयादिविवाहविधिः । तत्राधिवेदनीया आह याज्ञवल्क्यः-सुरापी व्याधिता धूर्ता वन्ध्याऽर्थभ्यप्रियंवदा । स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा । अधिविन्नातु भर्तव्या महदेनोऽन्यथा भवेत् । अधिवेत्तव्या तदुपरिस्न्यन्तरं कर्तव्यमित्यर्थः । आपस्तम्बःधर्मप्रजासंपन्ने दारे नान्यां कुर्वीतेति । अधिवेदने प्रतीक्षाकालं मनुराह-वन्ध्याऽष्टमेऽधिवेत्तव्या दशमे तु मृतप्रजा । एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी। रत्यर्थे तु विवाहान्तरे विशेषः । एकामुत्क्रम्य कामार्यमन्यां लब्धं य इच्छति । समर्थस्तोषयित्वाऽर्थः पूर्वोढामपरां वहेत् । याज्ञवल्क्यस्तु-आज्ञासंपादिनी दक्षां वीरतूं प्रियवादिनीम् । त्यजन्दाप्यस्तृतीयांशमद्रन्यो भरणं स्त्रियाः। सधनो धनतृतीयांशमधनोऽशनाच्छादनात्मकं भरणं दाप्य इत्यर्थः । या त्वेतावताऽपरितुष्टा गृहान्निगच्छेत्तां प्रत्याह मनु:-अधिविना तु या नारी निर्गच्छेद्रोपिता गृहात् । सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधाविति । बहुभार्यों ज्येष्ठयैव सह धर्म सपत्नीकसाध्यं कुर्यादिति । हेमाद्रौ कात्यायनः । अग्निशिष्टादिशुश्रूषां बहुभार्यः सवर्णया । कारयेत्तद्वहुत्वं चेन्जेष्ठया गर्हिता न चेदिति । शिष्टशुश्रूषा आतिथ्यादिपूजा । सा च पत्नीसंपाद्यधर्ममात्रोपलक्षणार्था । गर्हिता धर्मायोग्यत्वापादकपातित्यादिदोषवती न चेदित्यर्थः । तादृशी चेन्न तया । किंत्वनेवंविधया कनिष्ठयाऽपि कारयेत् । याज्ञवल्क्यः-सत्यामन्यां सवर्णायां धर्मकार्य न कारयेत् । सवर्णासु विधौ धर्मे ज्येष्ठया न विनेतरा । अन्यामसवर्णाम् । इदं चाधाने सहाधिकृतानेकभार्याविषयम् । अनधिकृतायास्तु प्रसत्यभाव एव । तत्रापि केवलकत्वर्थमाज्यावेक्षणादि यजमानौदुम्बरीसमानवदेकयैव सवर्णया ज्येष्टया कारयेत् ।