________________
१०५
कण्डिका]
प्रथमकाण्डम् । कुरुत इति रेणुदीक्षितादयः । ततो वर आज्येन प्रजापतये स्वाहेति इदं प्रजापतये । अथैनामुदीची सप्तपदानि प्रक्रामयति । तत्र वरः सप्तपदानि प्रक्रमस्वेति ब्रूयात् । एकमिषे विष्णुस्त्वानयतु इति मन्त्र पठित्वा प्रथमम् । द्वे ऊर्जे विष्णु० द्वितीयम् । त्रीणि रायस्पोषाय वि० तृतीयम् । चत्वारि मायोभवाय वि० चतुर्थम् । पञ्चपशुभ्यो वि०पञ्चमम् । षड्तुभ्यो वि०पष्ठम् । सखे सप्तपदा भव सा मामनुव्रताभवेति सप्तमम् । ततो वरः पूर्वघृतादुदकुम्भादुदकमादायापः शिवेति मन्त्रेण वधूमूर्द्धन्यभिपिञ्चति । ततो वरः सूर्यमुदीक्षस्वेति वधूं प्रेरयति । सा च तच्चक्षुरित्यादिशृणुयाम शरदः शतमित्यन्तेन मन्त्रेण सूर्यमुदीक्षते । ततो वरो वध्वा दक्षिणस्कन्धोपरि हस्तं नीत्वा मम व्रते इति मन्त्रेण तस्या हृदयमालभते । ततो वरो वधूमभिमन्त्रयते सुमङ्गलीरिति । अत्राचारात्रियः सिन्दूरदानादि कुर्वन्ति । ततो वरस्तामुत्थाप्य प्राच्यामुदीच्यां वा परिवृते रोहितानडुहे उपवेशयतीह गाव इति । ततो वर आगत्य पश्चादग्नेरुपविश्याग्नये स्विष्टकृते स्वाहेति जुहोति । इदमग्नये स्विष्टकृते । संस्रवप्राशनं, मार्जनं, पवित्रप्रतिपत्तिः, प्रणीताविमोकः, ब्रह्मणे दक्षिणादानम् । ततः स्वकीयायाचार्याय गां ददाति ब्राह्मणश्वेत् । ततोऽस्तमिते वरो ध्रुवं दर्शयति ध्रुवमसीति मन्त्रेण । सा च तूष्णी ध्रुवं पश्यति । सा यदि ध्रुवं न पश्येत् तदा पश्यामीत्येव ब्रूयात् । ततो दम्पत्योरक्षारादिनियमाः। इति विवाहे पदार्थक्रमः ॥ ॥ अथ देवकोत्थापनं मण्डपोद्वासनविधिः तत्र काल:-समे च दिवसे कुर्याद्देवकोत्थापनं वुधः । पष्टं च विपमं नेष्टं मुक्त्वा पञ्चमसप्तमौ । समेषु षष्ठं विषमेपु पञ्चमसप्तमातिरिक्तं दिनं नाष्टमित्यर्थः । संकल्पपूर्वक सर्वा देवताः प्रत्येकं पूजयित्वोत्तिष्ठ ब्रह्मणस्पते इति विसर्जयेत् । मण्डपोद्वासनं यथाकुलाचारं कृत्वा द्विजाशिषो मन्त्रोक्ता गृहीयात् । अथवध्वाःप्रथमगृहप्रवेश:-वधूप्रवेशः प्रथमे तृतीये शुभमदः पञ्चमके ऽथवाह्नि । द्वितीयके वाऽथ चतुर्थक वा षष्ठे वियोगामयदुःखदः स्यात् । लल्लः-स्वभवनपुरप्रवेशे देशाना विप्लवे तथोद्वाहे । नववध्वा गृहगमने प्रतिशुक्रविचारणा नास्ति । नित्ययाने गृहे जीर्णे प्राशनान्तेषु सप्तसु । वधूप्रवेशमाङ्गल्ये न मौव्यं गुरुशुक्रयोः । ज्योति प्रकाशे-वामे शुक्रे नवोढायाः सुखहानिश्च दक्षिणे । धनं धान्यं च पृष्ठस्थे सर्वनाशः पुरःस्थिते । नवोढायास्तु वैधव्यं यदुक्तं संमुखे भृगौ। तदेव विबुधैज्ञेयं केवलं तद्विरागमे । पूर्वतोऽभ्युदिते शुक्रे प्रयायादक्षिणापरे । पश्चादभ्युदिते चैत्र यायात्पूर्वापरे दिशौ । तथा भाद्रपदमासमारभ्य पूर्वादिमुख्यदिक्षु प्रतिदिशं मासत्रयं कपाटं ज्ञेयम् । चैत्रमारभ्य पूर्वाद्यष्टदिक्षु मुख्यदिशि मासद्वयं विदिक्ष्वेकमासं क्रमेण कण्टकं जानीयात् । इदं द्वयं प्रामान्तरे नववधूगमने वय॑म् । नियतकालेऽपि कदाचिनिषेधमाह गर्गः । व्यतीपाते च संक्रान्तौ ग्रहणे वैधृतावपि । श्राद्धं विना शुभं नैव प्राप्तकालेऽपि मानवः । तथा अमासंक्रान्तिविष्टयादौ प्राप्तकालेऽपि नाचरेदिति । विवाहात्प्रथमे पौषे आषाढे चाधिमासके । भर्तृगृहे वसेन्न स्त्री चैत्रे तालगृहे तथा । इति वधूगृहगमनविधिः । अथ गर्गमते पदार्थक्रमे विशेष:-अग्निस्थापनादि ब्राह्मणतर्पणान्तं विवाहकर्म । प्रथममाचार्यकर्तृकमग्निस्थापनम् । ततोमधुपर्कादि । अर्चयेति वरः । विष्टरौ विष्टरौ विष्टरावित्यन्यः । प्रतिगृह्येतामिति दाता । प्रतिगृह्णामीति वरः । एवमग्रे सर्वत्र पाद्यादौ नेयम् । एकस्मिन्विष्टरे आसनम् । तदैव तेनैव मन्त्रेण पादयोरधस्तान्निधानं द्वितीयविष्टरस्य । प्राणसंमर्शने नास्त्वित्यध्याहारः सर्वत्र । गोरालम्भान्ते लीढशान्तिवाचनं पुण्याहवाचनस्थाने । ततो मधुपर्कार्चनसमापनम् । ततः सदक्षिणं कन्यादानम् । ततः कौतुकागारं प्रविशति । युवतीनां मङ्गलाचारयुक्तानांप्रतिकूलभावेन प्रविशति । अन्यत्राभक्षपातकेभ्यः ।तत आचार्यों वासः परिधापयति जराङ्गच्छेति । उत्तरीयं च । ततः समजनम् । अध्येपणमाचार्यस्य । कङ्कणवन्धनं परस्परम् । दक्षिणहस्तेन पाणि गृहीत्वा निष्कामति यदेषीति । कन्यानामग्रहणे आचार्यः । परस्परं समीक्षणम् । उदकुम्भं स्कन्धे कृत्वाऽवस्थेयम् । ततः प्रदक्षिणमग्निं परीत्य पश्चादग्नेस्तेजन्यां कटे दक्षिणपादं दत्त्वोपवेशनम् । ब्रह्मो.