________________
१११
afusar ]
प्रथमकाण्डम् |
बलिहरणविधिपरे वाक्ये परिचरणस्य नित्यत्वं ज्ञापयति । दनेति पूर्वपूर्वालाभे उत्तरोत्तरद्रव्येण होम: कर्तव्यः । अग्नये स्वाहेत्याहुतिद्वयं सायं जुहोति । सूर्यायेत्यादि तु प्रातः । तत्र मेधातिथिर्गायत्री अनुष्टुभौ लिङ्गोक्ता होमे० पुमासावितिमन्त्रेण स्वयंपठितेन पूर्वामाहुतिमाग्नेयसौर्यस्थाने । गर्भकामेति स्त्रीप्रत्ययनिर्देशात्पत्न्येव जुहोति । अयं च पूर्वाहुतिविकारः । अत्रैव च स्त्री । उत्तराहुतौ तु यजमान एव मुख्यत्वात् । मुख्यत्वं च स्मृत्यर्थसारे – संध्याकर्मावसाने तु स्वयं होमो विधीयते । स्वयं होमे फलं यत्स्यान्न तदन्येन लभ्यते । होमे यत्फलमुद्दिष्टं जुह्वतः स्वयमेव तु । हूयमाने तदुन्येन फलमर्द्ध प्रपद्यते । स्वयं होमाशक्तौ तु – यजमानः प्रधानं स्यात्पत्नी पुत्रश्च कन्यका । ऋत्विक् शिष्यो गुरुर्भ्राता भागिनेयः सुतापतिः । एतैरेव हुतं यत्तु तद्भुतं स्वयमेव हि । पत्नी कन्या च जुहुयाद्विना पर्युक्षणक्रियामिति । ततः सायं समास्त्वेति प्रातर्विभ्राडित्यनुवाक्रेनोत्थायोपस्थानं परिचरणोपदेशात् । पुमासावित्यस्यार्थः सुगमः । तत्र मेवातिथिरनुष्टुप् लिङ्गोक्ता होमे ॥ ९ ॥
1
( हरिहर : ) - उपयम "परिचरणम् । अनौपासनस्यावसथ्यस्याग्नेः परिचरणमुपासनं व्याख्यास्यते कथमुपयमनप्रभृति उपयमनकुशादानमारभ्य । कोऽर्थः । उपयमनकुशानादाय समिधो - Sभ्याधाय पर्युक्ष्य जुहुयादिति यावत् । तस्य कालनियममाह ' अस्तमितानुदितयो: ' अस्तमितश्च अनुदितश्च अस्तमितानुदितौ तयोस्तथासूर्ययोः सूर्यस्यास्तमयानुदिताभ्यामुपलक्षितयोः कालयोरित्यर्थः। तत्रास्तमितलक्षणं छन्दोगपरिशिष्टे 'यावत्सम्यङ्न भाव्यन्ते नभस्यृक्षाणि सर्वतः । न च लोहितिमापैति तावत्सायं तु हूयते ' । अनुदितस्य द्वैविध्यम् — अनुदितः समयाध्युषितश्च । तत्रानुदित - स्पष्टतारकोपलक्षितः ततः परमुदयात्प्राक् समयाभ्युपितः । तथा च मनुः -- उदितेऽनुदिते चैव समयाभ्युषिते तथा । सर्वथा वर्तते यज्ञ इत्यर्था वैदिकी श्रुतिः । इति संपूर्णादित्यमण्डलदर्शनोपलक्षित उदितः । तत्र वाजसनेयिनां नियमेनानुदिते होमः । सूर्यो ह वा अग्निहोत्रमित्यारभ्य तस्मादुदितहोमिनां विच्छिन्नमग्निहोत्रं मन्यामह इत्यन्तेन श्रुतिसमाम्नायेन उदित होमनिन्दापूर्वकमनुदितहोमस्य समर्थितत्वात् । छन्दोगानामुदितानुदितयोर्विकल्पः उदितेऽनुदिते वेति गोभिलवचनात् । आश्वलायनानां पुनरुदितहोम नियम:, तथाच तैत्तिरीयब्राह्मणम् - प्रातः प्रातरनृतं ते वदन्ति पुरोदयात् जुह्वति येऽग्निहोत्रम् दिवाकीर्त्यमदिवाकीर्तयन्तः सूर्योज्योतिर्न तदाज्योतिरेषामिति । अनुदिते होमे निन्दार्थवाद - पुरःसरं तस्मादुदिते होतव्यमिति उदिते होमविधानात् । होमद्रव्यनियममाह 'दना तण्डुलै रक्षतैर्वा' जुहुयात् दना गव्येन तण्डुलैत्रीहिमयैः अक्षतैः सत्वकैर्यवैर्वा विकल्पेन एतेषामन्यतमेनेत्यर्थः ' अग्नये .....स्वाहेति प्रात: ' तत्र सायमनये स्वाहेति पूर्वाहुति प्रजापतये स्वाहेत्युत्तरां जुहुयात् । सर्वत्र प्रजापतियाग उपांशु स्वाहाकार: श्राव्यस्त्यागश्च | आघारे तु स्वाहान्तोऽपि मानसः । तथा सूर्याय स्वाहेति पूर्वी प्रजापतये स्वाहेत्युत्तरां, प्रातस्त्यागास्तु प्रयोगे वक्ष्यंते । तेच यजमानकृत्याः कुतः ? प्रधानत्वात् । प्रधानध-स्वामी फलयोगादिति कात्यायनवचनात् । प्रधानं हि द्रव्यस्वत्वपरित्यागः । ततञ्च प्रवसता यजमानेन यथाकालं यथादैवतं शुचिना आचान्तेन प्राङ्मुखोपविष्टेन सर्वकर्मसु कर्तव्याः । तत्र सायमादिप्रातरन्तमेकं कर्म प्रचक्षते इतिवचनात् सायंहोमद्रव्येणैव प्रातहोम: कर्तव्य. । तथा येन होत्रा सायं हुतं तेनैव प्रातहतव्यम् । येनारम्भस्तेनैव समाप्तिरिति न्यायाच्च । तथा दधितण्डुल्यवानामलाभे श्यामाकनीवारवेणुयवकन्दमूलफलजलसप्तानां पूर्वपूर्वालाभे परं परं नित्यहोमीय ग्राह्यम् । कन्दम् सूरणादि, फलमाम्रादि । अस्यैव कर्मणः कामसंयोगमाह 'पुमांसौ" 'सर्भकामा' पुमासौ मित्रावरुणावित्यादिना मन्त्रेण गर्भकामा पत्नी पूर्वामाहुति जुहुयात् । अत्र पूर्वी गर्भकामेत्यस्य कोऽर्थः ? किं नित्ययोर्द्वयोराहुत्योः प्रथमा पूर्वशब्देन विवक्षिता, उत ताभ्यां पूर्वा पूर्व होतव्या अन्यैव । किंतावत्प्राप्तम् ? अन्यैवेति मन्त्रान्तरेण देवतान्त रहो मवि -