________________
१०० पारस्करगृह्यसूत्रम्।
[अष्टमी चरतां धर्म सह या दीयतेऽर्थिन । स कायः पावयेत्तजः षट् षट् वंश्यान्सहात्मना । आसुरो द्रविणादानागान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलादिति । गान्धर्वादिष्वपि पतिभावाय पश्चाद्धोमादि सप्तपदीपर्यन्तं कार्यम् गान्धर्वासुरपैशाचा विवाहो राक्षसश्च यः । पूर्व परिग्रहस्तेषु पश्चाद्धोमो विधीयते । इति परिशिष्टात् । होमाद्यभावे वरान्तराय देया, सति तु नेति बौधायन आह । वलादपहृता कन्या मन्त्रैर्यदि न संस्कृता । अन्यस्मै विधिवद्दया यथा कन्या तथैव सेति । बलादिति छलादेरुपलक्षणम् ॥ ॥ अथ वाग्दानोत्तरं वरमरणे विशेषः-अद्भिर्वाचा च दत्तायां म्रियेतोय वरो यदि । न च मन्त्रोपनीता स्यात्कुमारी पितुरेव सा । देशान्तरगमने तु कात्यायन:-वरयित्वा तु यः कश्चित्प्रवसेत्पुरुषो यदा । त्ररत्यागमांस्त्रीनतीत्य कन्यान्यं वरयेत्पतिम् । याज्ञवल्क्यः-दत्तामपि हरेत्पूर्वाच्छ्रेयॉश्चेदर आव्रजेत् । वसिष्ठः-कुलशीलविहीनस्य षण्डादिपतितस्य च । अपस्मारिविधर्मस्य रोगिणां वेषधारिणाम् । दत्तामपि हरेत्कन्यां सगोत्रोढां तथैव च । अथ धर्मार्थविवाहकरणे फलम् । तत्र महाभारते-ज्ञात्वा स्ववित्तसामर्थ्यादेकं चोद्वाहयेद् द्विजम् । तेनाप्याप्नोति तत्स्थानं शिवभक्तेन यद ध्रुवम् । मातृपितृविहीनं तु संस्कारोद्वाहनादिभिः । यः स्थापयति तस्येह पुण्यसंख्या न विद्यते । भविष्ये-विवाहादिक्रियाकाले तस्क्रियासिद्धिकारणम् । यः प्रयच्छति धर्मज्ञः सोऽश्वमेधफलं लभेत् ।। ।। अथ वाग्दानविधिः । ज्योतिःशास्त्रोक्ते शुभे काले द्वौ चत्वारोऽष्टौ वा प्रशस्तवेपा वरपित्रादिना सहिताः शकुनदर्शनपूर्वकं कन्यागृहमेत्य कन्यापितुः प्रार्थना कार्या मत्पुत्रार्थ कन्यां प्रयच्छेति । अथ दाता भार्याद्यनुमतिं कृत्वा दास्यामीति चोचै—यात् । ततः कन्यादाता प्राड्मुख उपविश्याऽऽचम्य देशकालौ स्मृत्वा करिष्यमाणविवाहाङ्गभूतं वाग्दानमहं करिष्ये तद्ड् गणपतिपूजनं च करिष्य इति संकल्प्य गन्धादिदक्षिणान्तर्गणपति पूजयित्वा स्वस्थाने वरपितरं प्राङ्मुखमुपवेश्य स्वयं च तत्याच्या प्रत्यड्मुख उपविश्य तं गन्धत्ताम्बूलादिभिः पूजयित्वा हरिद्राखण्डपञ्चकं दृढपूगीफलानि च गन्धाक्षतालंकृतानि गृहीत्वाऽमुकगोत्रोत्पन्नाममुकपुत्रीममुकनानीमिमां कन्यां ज्योतिर्विदादिष्टे मुहूर्ते दास्य इति वाचा संप्रदे इति चोक्त्वा-अव्यङ्गे पतिते क्लीबे दशदोषविवर्जिते । इमां कन्यां प्रदास्यामि देवाग्निद्विजसंनिधौ इति पठेत् । ततो मन्त्रान्तरं पठेत्वाचा दत्ता मया कन्या पुत्रार्थ स्वीकृता त्वया । कन्यावलोकनविधौ निश्चितस्त्वं सुखी भव । वरपिता च ब्रूयात्--वाचा दत्ता त्वया कन्या पुत्रार्थ स्वीकृता मया । वरावलोकनविधी निश्चितस्त्वं सुखीभव । भ्रात्रादौ स्वीकर्तरि भ्रातृमित्रार्थमित्याहः कार्यः । ततो वरपित्रादिर्गन्धाक्षत. शुभवस्त्रादियुग्मभूपणताम्बूलपुष्पादिभिः कन्यां यथाचार पूजयेत् । ततो ब्राह्मणा आशीमन्त्रान्पठेयुः । इति वाग्दानम् ॥ ॥ अथ मृदाहरणं ज्योतिर्निवन्धे । कर्तव्यं मङ्गलेष्वादौ मङ्गलायाङ्कुरापणम् । नवमे सप्तमे वाऽपि पञ्चमे दिवसेऽपि वा । तृतीये वीजनक्षत्रे शुभवारे शुभोदये । सम्यग्गहाण्यलंकृत्य वितानध्वजतोरणैः । सहवादिननृत्याद्यैर्गत्वा प्रागुत्तरां दिशम् । तत्र मृत्सिकता लक्षणां गृहीत्वा पुनरागतः । मृन्मयेष्वथवा वैणवेपु पात्रेपु योजयेत् । अनेकवीजसंयुक्तां तोयपुष्पोपशोभिताम् । शौनकः-आधानं गर्भसंस्कारं जातकर्म च नाम च । हित्वाऽन्यत्र विधातव्यं मङ्गलेऽकरवायनम् । वृहस्पतिः-आत्यन्तिकेपु कार्येषु कार्य सद्योऽङ्करार्पणम् । ततो वैवाहिके शुभ मुहूर्ते वधूवरयोस्तैलहरिद्धालापनादि यथाऽऽचारं कार्यम् ॥ ॥ अथ विवाहदिनात्पूर्वदिनकृत्यम्-तत्र पूर्व गणपतिपूजनं, ततः पूर्वोक्तलक्षणं मण्डपं कृत्वा तत्प्रतिष्ठां कुर्यात् । तत्र पूर्वाहे सपत्नीकः कृताभ्यङ्गो धृतमाङ्गलिकवेपः शुभासने उपविश्याऽऽचम्य प्राणानायम्येष्टदेवतागुर्वा दिनमस्कारं कृत्वा देशकाली संक्रीयास्या अमुकनाम्न्याः श्वः करिष्यमाणविवाहानभूतं स्वस्तिवाचनं मण्डपप्रतिष्ठां मातृपूजनं वसोर्धारापूजनमायुष्यजपं नान्दीश्राद्धं चाहं करिण्य इति संकल्पं कुर्यात् । ततो ब्राह्मणानुपयेश्य