________________
कण्डिका] प्रथमकाण्डम्।
१०१ स्वस्तिवाचनं कुर्यात् ॥ ॥ मण्डपप्रतिष्ठा चैवम् । दूर्वाशमीपल्लवबकुलवृक्षपल्लवानाम्रादिप्रशस्तवृक्षपत्रवेष्टितान् सूत्रेण पञ्चधा वेष्टयेत् । आग्नेयकोणस्थमण्डपस्तम्भोपरि नन्दिनीनामकं वेष्टितं मनोजूतिरिति स्थापयित्वा तत्र नन्दिनी पूजयेत् । तञ्चेत्थम्-आपोहिष्ठेति प्रोक्ष्य गन्धद्वारामिति गन्धाक्षतं, दधिकाव्ण इति दधि, काण्डात्काण्डादिति दूर्वाः पुष्पाणि समर्पयेत् । ततो नैरत्यवायव्येशानस्तम्भेषु मण्डपमध्योपरिभागे काष्टे च क्रमेण नलिनीमैत्रोमापशुवर्द्धनीनासकवेष्टितानि पूर्ववत्स्थापयित्वा पूजयेत् । ततो मातृपूजन, वसोर्द्धारापूजनम् ।आयुष्यं वर्चस्यमित्यायुष्यजपं च कुर्यात् । एषामनुष्ठानप्रकारः पूर्वोक्तो द्रष्टव्यः ॥ ॥ नान्दीश्राद्धम्-इदं चोद्वाहे पिता कुर्यात् । द्वितीयादौ वर एव । तथा च स्मृतौनान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः । अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम् । मण्डनः-पित्रोस्तु जीवतोः कुर्यात्पुनः पाणिग्रहं यदा । पितुर्नान्दीमुखं श्राद्धं नोक्तं तस्य मनीषिभिरिति । पितुरभावे-असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैरिति यः कर्तृक्रमस्तेन क्रमेण ज्येष्ठभ्रात्रादिद्यादिति चन्द्रिकादय आहुः । हेमाद्रिस्तु तस्य पितुरभावे यः पितृव्यमातुलादिः संस्कुर्यात्स तत्क्रमासंस्कार्यपितृभ्यो दद्यान्नतु स्वपितृभ्य इति व्याख्यौ । अत्र बहु वक्तव्यं विस्तरभिया नोच्यते । रेणुकारिकायाम्-उक्ते काले विवाहाङ्गं कुान्नान्दीमुखं पिता । देशान्तरे विवाहश्चेत्तत्र गत्वा भवेदिदम् । अत्र पदार्थक्रमोऽस्मत्कृते श्राद्धप्रयोगे आलोचनीयः । एवं वरपिता स्वगृहेऽपि सवै कुर्यात् । इदं च वधूपित्रा कृते नान्दीश्राद्धे कार्यम् । तदुक्तं कारिकायाम्इत्थं वधूपिता कृत्वोद्वाहारम्भनिमित्तकम् । नान्दीश्राद्धं त्रयं कुर्यात्तस्मिन्नहनि संयतः । न मण्डपादिकं कर्म वरस्य श्राद्धमन्तरेति । आचारोऽप्येवम् । ततो वरगृहे गत्वा वरवरणं कार्यम् । तत्र गणपतिं स्मृत्वा देशकालौ संकीर्त्य करिष्यमाणविवाहाङ्गं वरणं करिष्य इति संकल्प्य उपवीतादिद्रव्यस्त्वां वृणे इति । तानि द्रव्याणि वराय दत्त्वा पादौ प्रक्षाल्य चन्दनादिभिः पूजां कुर्यात् । वरणे देयानि द्रव्याण्याह चन्द्रेश्वरः-उपवीतं फलं पुष्पं वासांसि विविधानि च । देयं वराय वरणे कन्याभ्रात्रा द्विजेन चेति । इति पूर्वदिनकृत्यम् । अगतौ सर्वमेतद्विवाहदिन एव पूर्व सर्व कुर्यात् ॥ ॥ अथ विवाहदिनकृत्यम् । तत्र पूर्व घटीस्थापनं कार्यम् । नारदः-पडङ्गुलमितोत्सेधं द्वादशाङ्गुलमायतम् । कुर्यात्कपालवत्ताम्रपात्रं तद्दशभिः पलैः । ताम्रपात्रे जलैः पूर्णे मृत्पात्रे वाऽथ वा शुभे। मण्डलार्धोदयं वीक्ष्य रवेस्तत्र विनिक्षिपेत् । तत्र मन्त्रः- मुखं त्वमसि यन्त्राणां ब्रह्मणा निर्मतं पुरा । भावाभावाय दम्पत्योः कालसाधनकारणमिति । ततो वरः कृतनित्यक्रिय इष्टदेवतां पित्रादींश्च नमस्कृत्य तैरनुमोदितो यथाविभवमश्वादियानमारुह्य वधूगृहं गत्वा तद्वारदेशे प्राङ्मुखः स्थितो नीराजनपूर्णकुम्भयुक्तैः पुरन्ध्रीजनैः प्रत्युद्यातो नीराजितोऽन्तर्गृहं प्रविश्य प्राङ्मुखस्तिष्ठेत् । ततः कन्यापिता मधुपर्केण समर्चयेत् ॥ ॥ अथ मधुपर्कः । तत्र वरस्य वैकल्पिकावधारणम्, यन्मधुन इति मधुपर्काशनं शेषस्य प्रागसंचरे निनयनम्, एतौ विकल्पो स्मरेत् । ततः साधु भवानिति अर्चयिता अध्ये प्रति वदति अर्चयेत्ययस्य प्रतिवचनमिति वासुदेवभवादयः । विष्टरादीनामाहरणम् , अर्घवितुर्यिष्टरादानम् , अर्धयितुर्व्यतिरिक्त अन्य अभ्य संबोधयति विष्टरो विष्टरो विष्ठरः प्रतिगृह्यतामित्यनेन । ततोऽयोंऽर्धयितुः सकाशातूष्णीं विष्टरमादायासने निधाय वमोऽस्मि समानानामित्युपविशति । ततः पाचोदकदानमर्धयितुः ततोऽय॑मन्यः संबोधयति पाचं पाद्यं पाद्यं प्रतिगृह्यतामिति । ततोऽर्धयितुः सकाशात्पाद्यं प्रतिगृह्य दक्षिणं पादं प्रक्षालयति विराजोदोहोऽसीति । ततोऽनेनैव मन्त्रेण वामपादप्रक्षालनम् । राजन्यवैश्ययोस्तु पूर्व वामपादप्रक्षालनम् । अर्धयितुर्विष्टरादानम् । अन्यः प्राह विष्टरो विष्टरो विष्टरः प्रतिगृह्यतामिति । ततोऽव्यों द्वितीयं विष्टरं तूष्णी प्रतिगृह्य भूमौ निधाय वर्मोऽस्मीत्यनेन तस्योपरि पादौ निदधाति । अर्धयितुर_दानम् । अन्यः प्राह अर्कोऽोऽर्घः प्रतिगृह्यतामिति ।