________________
कण्डिका
प्रथमकाण्डम् । महाविष्णोरिमां तनुम् । सौवर्णा निर्मितां शक्त्या तुभ्यं संप्रदे द्विज । अनघाद्याहमस्मीति त्रिवारं प्रजपेदिति । एवमस्त्विति तस्योक्तं गृहीत्वा स्वगृह विशेत् । ततो वैवाहिकं कुर्याद्विधिं दाता मृगीदृशः । अन्येऽप्यश्वत्थवृक्षविवाहवृक्षसेचनादयस्तत्रैव ज्ञेयाः ग्रन्थगौरवभयान्नेहोच्यन्ते । अथ विवाहकाले कन्या ऋतुमती चेत्तत्र यज्ञपार्श्वे विवाहे वितते तन्त्रे होमकाले उपस्थिते । कन्यामृतुमती दृष्ट्वा कथं कुर्वन्ति याज्ञिकाः । स्नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि । युञ्जानामाहुतिं हुत्वा ततः कर्मणि योजयेत् । युञ्जानः प्रथममित्यनेन मन्त्रेणाहुति हुत्वेत्यर्थः । यद्वा-विवाहहोमे प्रक्रान्ते यदि कन्या रजस्वला । त्रिरात्रं दम्पती स्यातां पृथक्शय्यासनाशन । चतुर्थेऽहनि सुनाती तस्मिन्ननौ यथाविधीति जुहुयातामिति शेषः । अथ विवाहे आशौचनिर्णयः । विधिवत्कृते कन्यावरणे त्रिरात्रादिव्रतसमाप्तिपर्यन्तमध्ये आशौचप्राप्तौ तदपोह्य सद्यःशौचं चन्द्रिकाकार आह । तत्र याज्ञवल्क्यः । दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । आपद्यपि च कष्टायां सद्यःशौचं विधीयते । इति । दातुर्वरस्य कन्यायाश्च सद्यःशौचं वृहस्पतिः । विवाहोत्सवयज्ञेपु वन्तरामृतसूतके । पूवर्सकल्पितार्थेपु न दोषः परिकीर्तितः । षत्रिंशन्मते-विवाहोत्सवयज्ञेषु त्वन्तरा मृतसूतके । परैरनं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः । व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम् । प्रारम्भश्च तेनैवोक्त:-प्रारम्भो वरणं यज्ञे संकल्पो व्रतसत्रयोः । नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रियेति । वरणमिति मधुपर्कपरम् । तथा च ब्राहये-गृहीवमधुपर्कस्य यजमानाच ऋत्विजः । पञ्चादशौचे पतिते न भवेदिति निश्चयः । मधुपर्कात्पूर्व तु भवत्येवमाशौचमिति रामाण्डारभाष्ये । शुद्धिविवेकेऽप्येवमेव । नान्दीमुखविधिश्वावश्यकत्वे अधिक उक्तः । एकविंशत्यहर्यज्ञे विवाहे दश वासराः । त्रिपटू चौलोपनयने नान्दीश्राद्धं विधीयत इति । तेन एकविंशत्याग्रहरन्तःपाति यदि यज्ञादिर्भवति तथा आवश्यके यज्ञादौ पूर्व श्राद्धं कुर्यादित्यर्थः । प्रारम्भाभावेऽपि कन्याया अधार्यत्वे विवाह इत्यर्थः । सन्निहितलग्नान्तराभावे च होमादिपूर्वकं विष्णुरनुज्ञामाह-अनारब्धविशुद्धयर्थ कूष्माण्डैर्जुहुयाद् घृतम् । गां दद्यात्पञ्चगव्याशी ततः शुष्यति सूतकी। उपकल्पितबहुसम्भारस्यापि तत्संनिहितलग्नान्तराभावेन संभारधारणाशक्ती आशौचाभावमाह विष्णुः-न देवप्रतिष्ठाविवाहयोः पूर्वसंभृतयोरिति॥ ॥अथ रजोदोषे निर्णयः-वधूवरान्यतरयोजननी चेद्रजस्वला ! तस्याः शुद्धेः परं कार्य माङ्गल्यं मनुरब्रवीत् । माधवीये--प्रारम्भात्प्राग्विवाहस्य माता यदि रजस्वला। निवृत्तिस्तस्य कर्तव्या सहत्वश्रुतिचोदनात् । प्रारम्भात्यागिति नान्दीश्राद्धात्प्रागिति ज्ञेयं, नान्दीश्राद्धं विवाहादावित्यादिना तस्यैव प्रारम्भोक्तेः । वृद्धमनु:-विवाहव्रतचूडासु माता यदि रजस्वला । तदा न मङ्गलं कार्य शुद्धौ कार्य शुभेप्सुभिरिति मेधातिथिः । चौले च व्रतवन्धे च विवाहे यज्ञकमणि । भार्या रजस्वला यस्य प्रायस्तस्य न शोभनम् । गर्गः यस्योद्वाहादिमाङ्गल्ये माता यदि रजस्वला । तदा न तत्प्रकर्तव्यमायुःक्षयकरं यतः । वृहस्पतिः-वैधव्यं च विवाहे स्याजडत्वं व्रतवन्धने । चूडायां च शिशोभृत्युर्विघ्नं यात्राप्रवेशयोः । आभ्युदयिकश्राद्धोत्तरं तु कपर्दिकारिकासु विशेष:-सूतिकोदक्ययोः शुद्धयै गां दद्याद्धोमपूर्वकम । प्राप्ते कर्मणि शुद्धिः स्यादितरस्मिन्न शुद्धयति । अलाभे सुमुहूर्तस्य रजोदोषे च संगते । श्रियं संपूज्य तत्कुर्यात्पाणिग्रहणमङ्गलम् । हैमी माषभितां पद्मां श्रीसूक्तविधिनाऽर्चयेत् । प्रत्यूचं पायसं हुत्वा अभिषेकं समाचरेदिति ॥ ॥ अथ विवाहभेदाःमनुः-ग्रामो दैवस्तथा चार्पः प्राजापत्यस्तथाऽऽसुरः । गान्धर्वो राक्षसञ्चैव पैशाचस्त्वष्टमो मतः । चत्वारो ब्राह्मणस्याद्या राज्ञां गान्धर्वराक्षसौ । राक्षसश्चासुरो वैश्य शूद्रे चान्त्यस्तु गर्हितः । अन्त्यः पैशाचः । याज्ञवल्क्य.-ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । तन्नः पुनात्युभयतः पुरुपानेकविशतिम । यज्ञस्थऋत्विजे देव आदायार्पस्तु गोद्वयम् । चतुर्दश प्रथमजः पुनात्युत्तरजश्च पट् । इत्युक्त्वा