________________
पारस्करगृह्यसूत्रम् ।
[अष्टमी सर्वा मातरस्तद्भातरो मातुलास्तद्भगिन्यो मातृष्वसारस्तहुहितरश्च भगिन्यस्तद्पत्यानि भागिनेयानि अन्यथा संकरकारिण्यः स्युः' इति । अत्र यावद्वचनं वाचनिकमितिन्यायेन परिगणितेष्वेवातिदेशिक सापिण्डथं नतु पञ्चमसप्तमपर्यन्तं कचित्तु वचनादेव विवाहनिषेधः । तथाच वढ्चगृह्यपरिशिष्टे-'अविरुद्धसंवन्धामुपयच्छेत्' इत्युक्त्वा स्वयमेव विरुद्धं संवन्धं दर्शयति, ' यथा भार्यास्वसुटुंहिता पितृव्यपत्नीस्वसा च ' इति । तथा नारदः-प्रत्युद्धाहो नैव कार्यो नैकस्मै दुहितद्वयम् । नैवैकजन्ययोः पुंसोरेकजन्ये च कन्यके । नैवं कदाचिदुद्वाहो नैकदा मुण्डनद्वयम् । अन्यच्चापिएकजन्ये च कन्ये द्वे पुत्रयोनेकजन्मनोः । न पुत्रीद्वयमेकस्मै प्रदद्याद्वै कदाचनेति । अथ वरगुणा:तत्र बुद्धिमते कन्यां प्रयच्छेदिति वढचगृह्यम् । यमः-कुलं च शीलं च वयश्च रूपं विद्यां च वित्तं च सनाथतां च । एतान्गुणान्सप्त परीक्ष्य देया कन्या बुधैः शेषमचिन्तनीयम् । याज्ञवल्क्यः एतैरेव गुणैर्युक्त: सवर्णः श्रोत्रियो वरः । यत्नात्परीक्षितः सम्यकू युवा धीमाजनप्रियः । एतैः कन्यागुगैरनन्यपूर्वकत्वयवीयस्त्वभ्रातृमत्त्वव्यतिरिक्तैर्युक्तः । कात्यायन:-उन्मत्तः पतितः कुटी पण्ढश्चैव स्वगोत्रजः । चक्षुःोत्रविहीनश्च तथाऽपस्मारदूपितः । वरदोषाः स्मृता ह्येते कन्यादोपाः प्रकीर्तिताः । नारदः 'परीक्ष्य पुरुपः पुंस्त्वे निजैरेवाङ्गलक्षणैः । पुमाँश्चेदविकल्येन स कन्यां लब्धुमर्हति । सुबद्धजत्रुजान्वस्थि सुबद्धांसशिरोधरः । यस्याविप्लवते रेतो ह्रादि मूत्रं च फेनिलम् । पुमान्स्याल्लक्षणैरेमिविपरीतस्तु पण्डकः॥अपत्याथै स्त्रियः सृष्टाः स्त्री क्षेत्रं वीजिनो नराः ॥ क्षेत्रं वीजवते देयं नावीजी क्षेत्रमर्हति ॥ ॥ अथ कन्यावरयोवृहस्पत्यानुकूल्याभावे तदाऽऽनुकूल्याय बृहस्पतिशान्तिस्तत्र शौनक:-कन्योद्वाहस्य काले तु आनुकूल्यं न विद्यते । ब्राह्मणस्योपनयने गुरोविधिरुदाहृतः । सुवर्णेन गुरुं कृत्वा पीतवस्त्रेण वेष्टयेत् । ईशान्यां धवलं कुम्भं धान्योपरि निधाय च । दमनं मधुपुष्पं च पलाशं चैव सर्पपान् । मांसी गुडुच्यपामार्गविडडीशजिनी वचा । सहदेवी हरिक्रान्ता सर्वोपधिशतावरी । वला च सहदेवी च निशाद्वितयमेव च । कृत्वाऽऽज्यभागपर्यन्तं स्वशाखोक्तविधानतः । यथोक्कमण्डलेऽभ्यय॑ पीतपुष्पाक्षतादिभिः । देवपूजोत्तरे काले ततः कुम्भानुमन्त्रणम् । अश्वत्थसमिधश्वाज्यं पायसं सर्पिपा युतम् । यवव्रीहितिलाः साज्या मन्त्रेणैव वृहस्पतेः । अष्टोत्तरशतं सर्व होमशेपं समापयेत् । पुत्रदारसमेतस्य अभिषेकं समाचरेत् । कुम्भाभिमन्त्रणोक्तैश्च समुद्रज्येष्ठमन्त्रतः । प्रतिमां कुम्भवस्त्रं च आचार्याय निवेदयेत् । ब्राह्मणान्मोजयेत्पश्चाच्छुभं स्यान्नात्र संशयः । अथापरिहार्य कन्यावैधव्ययोगे तूच्यते । तत्र मार्कण्डेयपुराणे चालवैधव्ययोगे तु कुम्भेष प्रतिमादिभिः । कृत्वा लग्नं ततः पश्चात्कन्योद्वाह्येति चापरे । तत्र पुनर्भूदोपाभाव उक्तो विधानखण्डे । स्वर्णाम्बुपिप्पलानां च प्रतिमा विष्णुरूपिणी । तया सह विवाहे तु पुनर्भूत्वं न जायते । सूर्यारुणसंवाद-विवाहात्पूर्वकाले च चन्द्रतारावलान्विते । विवाहोक्ते च मन्थन्या कुम्भेन सह चोदहेत् । सूत्रेण वेष्टयेत्पश्चादशतन्तुविधानतः । कुकमालंकृतं देहं तयोरेकान्तमन्दिरे । ततः कुम्भं च निस्साय प्रभज्य सलिलाशये । ततोऽभिपेचनं कुर्यात्पञ्चपल्लववारिभिः । कुम्भप्रार्थनाऽपि तत्रैवोक्ता-घरुणाङ्गस्वरूपाय जीवनानां समाश्रय । पतिं जीवय कन्यायाश्चिरं पुत्रसुखं कुरु । देहि विष्णो वरं देव कन्या पालय दुःखतः । ततोऽलङ्कारवस्त्रादि वराय प्रतिपादयेत् । इति कुम्भविवाहः । तत्रैव मूर्तिदानमप्युक्तम् । ब्राह्मणं साधुमामन्त्र्य संपूज्य विविधाहणैः । तस्मै दद्याद्विधानेन विष्णोर्मूर्ति चतुर्भुजाम् । शुद्धवर्णसुवर्णेन वित्तशच्याऽथवा पुनः । निर्मितां रुचिरां शवगदाचक्राव्जसंयुताम् । दधानां वाससी पीते कुमुदोत्पलमालिनीम् । सदक्षिणां च तां दद्यान्मन्त्रमेनमुदीरयेत् । यन्मया प्राचि जनुपि त्यक्त्वा पतिसमागमम् । विपोपविपशस्त्राद्यैर्हतो वाऽतिविरक्तया । प्राप्यमानं महाघोरं यशःसौख्यधनापहम् । वैवव्याद्यतिदुःखौघनाशाय सुखलब्धये । बहुसौभाग्यलब्धौ च