________________
कण्डिका
प्रथमकाण्डम् । ब्राजिनीरिणादधन्या श्मशानात्पतिनीति । अस्यार्थः । दुर्विज्ञेयानि लक्षणान्येवं परीक्षेत । क्षेत्रादिभ्यो मृदमादाय आहृत्य अष्टौ पिण्डान् कृत्वा ऋतमने इत्यनेन मन्त्रेण मृत्पिण्डानभिमन्त्र्य कुमारी ब्रूयात् एषां पिण्डानां मध्ये एकं पिण्डं गृहाणेति । यदेकस्मिन्वत्सरे द्विः फलति तदुभयतःसस्यं क्षेत्र तस्मात्क्षेत्रादाहृतपिण्डं गृहीयाचेदन्नवती अस्याः प्रजा भविष्यति इति विद्यात् । एवमुत्तरत्रापि ज्ञेयम् । अपवृक्ते कर्मणि या वेदिः सा वेदिपुरीपम् । अविदासी नाम अशोप्यो हाः देवनं द्यूतस्थानम् ईरिणमूपरं, विप्रनाजिनी विविधं प्रव्रजनशीला खैरिणीति यावत्, पति हन्तीति पतित्री । अत्रैवं क्रमः क्षेत्रादिभ्यो मृदाहरणं पिण्डाप्टककरणमन्यस्य ऋतमग्र इति पिण्डाभिमन्त्रणम् एपामेकं गृहाणेति प्रैपः । क्षेत्रपिण्डग्रहणे अस्याः प्रजा अन्नवती भविष्यतीति ज्ञातव्यम् । गोष्टपिण्डाऽऽदाने पशुमती । वेदीपिण्डाऽऽदाने ब्रह्मवर्चस्विनी। हृदपिण्डादाने सर्वसंपन्ना । सुतस्थानपिण्डाऽऽदाने चूतिनी । चतुष्पथपिण्डाऽऽदाने स्वैरिणी । ऊपरपिण्डाऽऽदाने धनहीना । श्मशानभूमिपिण्डादाने पतित्री । अत्र प्रजास्तुतिनिन्दाद्वारेण सैव वस्तुतो निन्दिताऽनिन्दिता चेति मन्तव्यम् । उत्तरैस्तु त्रिभिवाक्यैः सैव निन्द्यते । अनन्यपूर्विकेत्यनेन वाग्दत्ता, मनोदत्ता, अग्निं परिगता, सप्तपदीं नीता, भुक्ता, गृहीतगर्भा, प्रसूता चेति सप्त पुनभ्वों व्यावय॑न्ते । कान्तां वोढुमनोनयनयोराह्लादकरीम् । अपिण्डेति सापिण्डयवर्जनम् । तच्चैकशरीरावयवान्वयेन भवति । एकस्य हि पितुर्मातुर्वा शरीरावयवाः पुत्रपौत्रादिपु साक्षात्परम्परया वा शुक्रशोणितादिरूपेणानुस्यूताः । यद्यपि पल्ल्याः पत्या सह भ्रातृपत्नीनां च परस्परं नैतत्संभवति तथाप्याधारत्वेनैकशरीरावयवान्वयोऽस्त्येव । एकस्य हि पितृ शरीरस्यावयवा पुत्रद्वारा तास्वाहिता इति मिताक्षराकारमदनपारिजातादय आहुः । कथञ्चिदेकपिण्डक्रियाप्रवेशेन निर्वाप्यसापिण्ड्यं चन्द्रिकापरार्कमेघातिथिमाधवादयो वदन्ति । नन्वेवं विधातृशरीरावयवान्वयेन सापिण्ड्यातिप्रसङ्गेन एकपिण्डदानक्रियान्वयित्वेन वा गुरुशिष्यादेरपि श्राद्धदेवतात्वात्सापिण्डयमिति न काप्यसपिण्डेत्यत आह याज्ञवल्क्यः-पञ्चमात्सप्तमादूर्व मातृतः पितृतस्त: थेति । मातृपक्षे पञ्चमात्पितृपक्षे सप्तमादूर्ध्व सापिण्डयं निवर्तत इति शेपः। कूटस्थमारभ्यात्र गणनाकार्या । तदुक्तम्-वध्वा वरस्य वा तात: कूटस्थाद्यदि सप्तमः । पञ्चमी चेत्तयोर्माता तत्सापिण्डयं निवतत इति । कूटस्थो मूलपुरुपः यतः संतानभेदः । यवीयसी स्वापेक्षया वयसा वपुपा च न्यूनाम् । अरोगि. णीमचिकित्स्यराजयक्ष्मादिरोगरहिताम् , भ्रातृमतीमिति पुत्रिकाकरणशङ्कानिवृत्त्यर्थम् , यत्र तु पुत्रिकाकरणाभावनिश्चयस्तामभ्रातृकामप्युद्वहेत् । असमानार्पगोत्रजाम् ऋपेरिदमार्प, गोत्रप्रवर्तकस्य मुनावतकः प्रवर इत्यर्थः । गोत्रं वंशपरम्पराप्रसिद्धम् । स्वसमाने आर्पगोत्रे यस्य तस्माज्जाता या न भवति तां यास्कवाधूलमौनमूकानां भिन्नगोत्राणामपि भार्गववैतहव्यसावेतसेति प्रवरैक्यमस्ति तत्र विवाहो मा भूदिति असमानार्षजामित्युक्तम् । आङ्गिरसास्वरीपयौवनाश्वेति, मान्धात्रम्वरीपयौवनाश्वेति, आडिरसमान्धातृप्रवरभेदेऽपि यौवनाश्वगोत्रैक्यम् तादृशविवाहवारणायासमानगोत्रजामिति उक्तम् । तथा च गोत्रप्रवरौ पृथक् पर्युदासे निमित्तभूतौ । प्रवरैक्ये विशेपमाह बौधायनः-पञ्चानां त्रिपु सामान्यादविवाहस्त्रिपुद्वयोः भृग्वगिरोगणेष्वेव शेपेष्वेकोऽपि वारयेत् । इति, विवाहमिति शेषः । इति संक्षिप्तगोत्रप्रवरनिर्णयः । अथ समानार्पगोत्रजाविवाहे प्रायश्चित्तम् परिणीय सगोत्रां तु समानप्रवरां तथा । त्यागं कुर्याद् द्विजस्तस्यास्ततश्चान्द्रायणं चरेत् । त्यागञ्चोपभोगस्यैव न तु तस्याः । समानप्रवरां कन्यामेकगोत्रामथापि वा विवाहयति यो मूढस्तस्य वक्ष्यामि निष्कृतिम् । उत्सृज्य तां ततो भायौं मातृवत्परिपालयेदिति शातातपस्मृतेः । समानप्रवरस्वरूपं च वौधायनेनोक्तम् । एक एव ऋषिर्यावत्प्रवरेष्वनुवर्तते । तावत्समानगोत्रत्वमृते भग्वगिरोगणादिति । समानगोत्रत्वं समानप्रवरत्वमित्यर्थः । अथ सापत्नविपये सापिण्ड्यम्-सपत्नमातामहकुलेऽप्यातिदेशिकात्सापिण्ड्यादविवाहः । तथाच सुमन्तुः-'पितृपल्यः