________________
९६
पारस्करगृह्यसूत्रम् ।
[ अष्टमी
श्मानमारोहयतीत्येतदनन्तरं तूष्णी वरस्य पाषाणावरोहणं कारयित्वा कुमार्या भ्राता वराङ्गुष्ठोपरि उपलं निधाय वराद्रूयादि गृहाति ताः स्मरन्ति तदप्रमाणं लोभमूलत्वेन वैसर्जनीयवस्त्रवदित्यत आह--- तयोर्विवाहश्मशानयोर्यामः प्रमाणमिति श्रुतिवचनात्ताभिर्यत्स्मर्यंते रूप्यग्रहणादि तदपि प्रमाणमिति प्रत्यक्षश्रुतिमूलत्वात् । ' आचार्याय वरं ददाति ततो वरः आचार्याय स्वकीयाय वरं ददाति । ' गौर्ब्राह्नवैश्यस्य' वरशव्दार्थव्याख्यानं करोति ब्राह्मणश्चेत्परिणेता तड़ा गां वरं ददाति, क्षत्रियश्चेद्वरस्तदा ग्रामं वरं ददाति, वैश्यश्चेद्वरस्तदाऽश्वं वरं ददाति । एते वरा विवाहे एव प्रकरणात् । सर्वासु वरचोदनासु गवादयो वरशब्दवाच्या इति भर्तृयज्ञः । ' अधिरथः शतं दुहितृमते ' ददातीत्यनुवर्तते । दुहितृमाञ्च यस्य दुहितर एव न पुत्रास्तस्मै दुहितृमते रथेन अधिकं गोशतं दत्वा तस्य कन्यामुद्वहेत् प्रतिषेधत्यमूं मनुः --- यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता । नोपयच्छेत तां कन्यां पुत्रिकाधर्मशङ्कयेति । तस्याः परिक्रयाय रथाधिकं गवां शतं ददाति । 'अस्तमिते....." शतमिति' अस्तमिते सूर्ये वधूं ध्रुवसंज्ञं नक्षत्रं दर्शयति ध्रुवमसीत्यनेन मन्त्रेण । नात्र ध्रुवमीक्षस्वेत्यध्येषणा । अयमेव मन्त्रः कारितार्थे । अत्र कर्कभाष्यम् --- अस्तमिते धुवं दर्शयति ध्रुवमसीत्यनेन मन्त्रेण कारितार्थे चायमेवमन्त्रः पश्यामीत्यन्तर्भूतम्यर्थः । यदुक्तं भवति दर्शयामीति तदुक्तं भवति पश्यामीति । मन्त्रोऽपि चैवं व्यवस्थितः । ध्रुवैधिपोष्येमयि मह्यं त्वादाद्बृहस्पतिर्मया पत्या प्रजावती संजीव शरदः शतमिति । कुमार्यैवोच्यत इति । वस्त्रा मन्त्रपाठ इति भ्रान्तिमान् गङ्गाधरः । ध्रुवमीक्षस्वेति प्रैष इति हरिहरगड्नाधरौ । मन्त्रार्थः । हे वधु त्वं ध्रुवमसि ध्रुवा शाश्वती असि भवसि यतः त्वा त्वां ध्रुवं तारकाविशेषं पश्यामि दर्शयामि । अत्रान्तर्भूतो णिच् ज्ञेयः । अतस्त्वमपि ब्रुवा शाश्वती पोष्या पोषणीया मत्प्रजापोष्ट्री वा एधि भव वर्द्धयेति वा । एतदर्थमेव बृहस्पतिर्ब्रह्मा त्वा त्वां मह्यमदात् दत्तवान् । अतो मया पत्या भर्ना सह प्रजावती पुत्रपौत्रादियुक्ता शतं शरदो वर्षाणि जीव प्राणिहि । ' सा यदि ब्रूयात् ' सा कन्या यदि ध्रुवसंज्ञकं सूक्ष्मं नक्षत्रं न पश्येत्तदा पश्यामीत्येव वक्तव्यं तया, न पश्यामीति वचनं न ब्रूयात् । ' त्रिरात्र खाताम् ' । लग्नदिनमारभ्य त्रिरात्रं यावत् चरवत्रौ अक्षारमलवणं चाश्नीव इत्येवंशीलौ स्याताम् । ताम् ' । अघोभूमौ स्वपेतां खटुान्युदासार्थोऽधः शब्दः नास्तरणव्युदासार्थः । ' संवत्सरं " न्ततः ' ' विवाहदिनमारभ्य संवत्सरं यावत् न मिथुनमुपेयातां ब्रह्मचारिणौ स्यातां द्वादशरात्रं वा षड्रात्रं वा त्रिरात्रं वा । अष्टमी कण्डिका ॥ ८ ॥ ॥ * ॥
1
" अधः शयीया
1
अथ विवाहे पदार्थक्रमः । तत्र तावदुपयोगितया किञ्चित्संक्षेपेणोच्यते । अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । आश्रमेण विना तिष्ठन् प्रायश्चित्ती भवेद्धि स इति दक्षस्मृतेः, अविप्लुतत्राच लक्षण्यां खियमुद्वहेत् । ' अनन्यपूर्विका कान्तामसपिण्डां यवीयसीम् । अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम्' इति च याज्ञवल्क्योक्तेः, अविप्लुतत्रह्मचयों वाह्याभ्यन्तरलक्षणयुक्तां स्त्रियमुद्रहेत् । अत्र कुलमग्रे परीक्षेतेति गृह्णान्तरवचनादादौ सदाचारादिगुणवत्तया ही क्रियत्वादिदोषहीनतया च परीक्ष्य कुलं तज्जोद्वाह्या । तदनु लक्षणाद्यपि परीक्ष्यम् । लक्षणानि च शुभाशुभसूचकानि । तनुलोमकेशदशनत्वगादीनि प्रत्यक्षगभ्यानि वाह्यानि । तथा च मनुः अव्यङ्गाङ्गीं सौम्य - नाम्नी हंसवारणगामिनीम् । तनुलोमकेशदशनां मृदङ्गीमुदहेत् खियमिति । यान्यान्तराणि तान्युक्तान्याश्वलायनगृह्ये- दुर्विज्ञेयानि लक्षणान्यष्टौ पिण्डान् कृत्वा ऋतम प्रथमं जज्ञ ऋते सत्यं प्रतिष्ठितम् । यद्द्द्द् कुमार्यभिजाता तदियमिह प्रतिपद्यतां यत्सत्यं तद्दृश्यतामिति पिण्डानभिमन्य कुमारीं ब्रूयादेषामेकं गृहाणेति क्षेत्राच्चेदुभयतः सस्याद् गृह्णीयादन्नवत्यस्याः प्रजा भविष्यतीति विद्यादोष्ठात्पशुमती वेदिपुरीषाद्रह्मवर्चखिन्यविदासिनो हृदात्सर्वसंपन्ना देवनात्कितत्री चतुष्पथाद् द्वि
1