________________
९५
कण्डिका]
प्रथमकाण्डम्। चार्याणां मते अग्नरुत्तरतस्तिष्ठति अतश्च विकल्पः । 'तत एना'..."भेपजमिति । ततस्तस्मादुदकुम्भाद्धस्तेन जलमादाय एनां वधू मूर्ध्नि शिरसि वर एव आपः शिवा इत्यनेन मन्त्रेणाभिपिञ्चति । मन्त्रार्थः । या आपः शिवाः कल्याणहेतवः शिवतमाः अतिशयाभ्युदयकारिण्यः शान्ताः सुखकर्त्यः शान्ततमाः परमानन्ददायः ता आपस्ते तव भेपजमारोग्यं कृण्वन्तु कुर्वन्तु | 'आपोहिष्टेति च तिमृभिः' चशब्दात्तस्मादुदकादापोहिष्टेति त्रिभिमन्त्रैरभिपेकः कार्यः । अथैनाई....."चक्षुरिति' अथैनां वधूं वरः सूर्यमुदीक्षयति सूर्यावेक्षणं कारयति उदीक्षयतीतिकारितत्वात् अध्येपणा सूर्यमुदीक्षस्वेति । सा च वरेण प्रेरिता सूर्य पश्यति तचक्षुरित्यनेन मन्त्रेण । दिवाविवाहपक्षे एतदितिरेणुदीक्षितहरिहरौ । अस्माभिस्तु सूर्यावेक्षणान्यथाऽनुपपत्त्या अस्तमिते ध्रुवं दर्शयतीत्यत्रास्तमितग्रहणाच एतगृह्यानुसारिणां दिवैव विवाह इत्युच्यते । 'अथास्यै "मह्यमिति' अस्या इति चतुर्थी पष्ठयर्थे । अस्याः वध्वाः दक्षिणांसमधि दक्षिणस्य अंसस्य स्कन्धस्य अधि उपरि हस्तं नीत्वा मम व्रते त इत्यनेन मन्त्रेण तस्या हृदयमालभते वरः । हे कन्ये इत्यध्याहारः । मम व्रते शास्त्रविहितनियमादौ ते तव हृदयं मनः दधामि स्थापयामि । किच मम चित्तमनु मम चित्तानुकूलं ते तव चित्तमस्तु । त्वं च मम वाचं वचनं एकमना अव्यभिचारिमनोवृत्तिर्जुषस्व हृवचित्ताऽऽदरेण कुरुष्व । त्वा त्वां स च एव प्रजापतिमह्यं मदर्थे मां प्रसादयितुमित्यर्थः नियुनक्तु नियोजयतु । ' अथैना...."रेतनेति ।। वर एनां वधूं सुमङ्गलीरित्यनेन मन्त्रेणाभिमन्त्रयते । अत्राचाराचतस्रः स्त्रियो मङ्गलं कुर्वन्ति । तथाच कारिकायांपतिपुत्रान्विता भव्याश्चतस्रः सुभगा अपि । सौभाग्यमस्यै दास्ता मङ्गलाचारपूर्वकमिति । मन्त्रार्थ:-हे विवाहदेवताः इयं वधूः सुमङ्गली: शोभनमगलरूपा विसर्गश्छान्दसः अत इमां कन्यां समेत संगच्छत संगत्य च इमां पश्यत दृष्टया विलोकयत । किच अस्यै कन्यायै सौभाग्यं दत्त्वा अस्तं गृहं याथ यात इत्यर्थः । न विपरेत न विमुखतया पराइत अपगच्छत । पुनरपि पुत्रादिमङ्गलमाशास्य पुनरागमनाय व्रजत इत्यर्थः । यद्वा यद्यस्तं याथ तर्हि न विपरेतेति अस्तं गृहा इतिश्रुतेः । 'तां बढ..."दन्विति । ततो वरस्तां वधूमुन्मथ्य उत्क्षिप्य उत्थाप्य प्राक् प्राच्यामुदगुदीच्यां वा अनु गुप्ते आगारे परिवृते गृहे रोहिते रक्तवणे आनडुहे चर्मणि उपवेशयतीह गाव इत्यनेन मन्त्रेण चर्म च प्राग्नीवमुत्तरलोमास्तीर्णं भवति 'चाण्युत्तरलोमानि प्राग्नीवाणि ' इति परिभाषितत्वात् । दृढपुरुषः कश्चिद्वलवान् पुरुष इति हरिहरः । दृढपुरुषो जितेन्द्रिय इति भर्तृयज्ञः । जामातैव दृढपुरुष इति रेणुकदीक्षितगङ्गाधरौ । अस्माकमपि मते वर एव तस्य च दृढत्वं जितेन्द्रियत्वेन, अन्यथा वध्वा अनुगुप्तागारनयने मनसि उन्मादोत्पत्तः, नद्यापि भार्यात्वमुत्पन्नमिति । मन्त्रार्थः-इह कन्यानिवेशने गावः अश्वाः पुरुषाश्च निपीदन्तु वसन्तु इहपदावृत्तिः कर्तृभेदापेक्षया ! किं च उ एवार्थे । इहैव सहस्रं गावो दक्षिणा यस्य स यज्ञः पूषा पुष्टिकरो निपीदतु पूषा वै सहस्रदक्षिण आसेतिश्रुतेः । 'ग्रामवचन.."चानयोः' । विवाहे श्मशाने च वृद्धानां स्त्रीणां वचनं वाक्यं कुर्युः सूत्रे अनुपनिवद्धमपि वधूवरयोमङ्गलसूत्रं गले मालाधारणमुभयोर्वस्त्रान्ते ग्रन्थिकरणं करग्रहणे न्यग्रोधपुटिकाधारणं वरागमने नासिकाधारणं वरहृदये दध्यादिलापनादि ताश्च यत्स्मरन्ति तदपि कर्तव्यमित्यर्थः । चशब्दादेशाचारोऽपि । ग्रामशब्देन स्वकुलवृद्धा स्त्रियोऽभिधीयन्ते । ता हि पूर्वपुरुषैरनुष्टीयमानं सदाचारं स्मरन्ति । ग्रामवचनं लोकवचनमिति भर्तृयज्ञः । वृद्धानां स्त्रीणां वचनं कार्यमिति कुत इत्यत आह ! ' ग्राम'..."मितिश्रुतेः । ग्रामं वृद्धानां स्त्रीणामाचारं प्रविशतादिति स्मृतिवचनात् । ननु प्रामं प्रविशतादिति स्मृतिवचनाद्धरिद्रालापनादौ अस्तु प्रामाण्यं, यत्र तु अथैनाम.