________________
९४ पारम्करगृह्यसूत्रम्।
[अष्टमी पष्ठम् । सखे सप्रपदा भव सा मामनुत्रता भव विष्णुस्त्वा नयविति सप्तमम् । एवं वर एकैकं मन्त्रं समुच्चायोचार्य सप्तपदानि दापयत्युत्तरोत्तरं दक्षिणपादेन । अथ वरः स्कन्यकृतागुदकुम्भादुदुकमादाय वधूमूर्द्धन्यभिषिञ्चति । आप. शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेपजमित्यनेन मन्त्रेण । पुनस्तथैवोदकमादायाऽऽपोहिष्टेति ऋचं पठित्रा तथैव मूर्द्धन्यभिषिञ्चति । अय वरः सूर्यमुदीक्षस्वेति क्यूं प्रेपयति, सा च प्रेपिता सती सूर्यमुदीक्षते, तचक्षुरित्यादि शृणुयामशरदः शतमित्यन्तं मन्त्रं स्वयं पठित्वा । अथ वरो वध्वाः दक्षिणांसस्योपरि हस्तं दत्वा हृद्यमालभते मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु । मम वाचमेकमना जुपस्व प्रजापतिष्ठा नियुनक्तु मह्यमित्यनेन मन्त्रेण | अथ हृदयालम्भनानन्तरं वरो वधूमभिमन्यते 'सुमडलीरित्रं वधूरिमा समेत पश्यत । सौभाग्यमस्यै दत्त्वा यायास्तं विपरेतन ' इत्यनेन मन्त्रेण । अथात्र शिष्टाचारान् वधू वरस्य वामभागे उपवेशयन्ति, तस्याः सीमन्ते वरेण सिन्दूरं दापयन्ति । अथाग्नेः प्रागुदग्वा पूर्वकल्पितेऽनुगुप्त आगारे उत्तरलोम्नि प्राग्नीवे आनडुह चर्मणि तां वधू दृढपुरुप उत्याप्योपवेशयति-इह गावो निपीदन्विहाश्वा इह पूरुपाः । इहोसहस्रदक्षिणोयज्ञइहपूषानिपीदन्विति मन्त्रेण । यद्वा जामाता दृढपुरुपत्तस्मिन्पक्षे वर उपवेशयति वधूम् । तत आगत्य पूर्ववद्यथास्थानमुपविश्य ब्रह्मान्वारब्धो वरः अग्नये स्विष्टकते वाहा इदमन्नये स्विष्टकृते इति स्त्रिष्टकृद्धोमं विधाय, संत्रवान्प्राज्य, ब्रह्मणे पूर्णपात्रवरयोरन्यतरं दत्त्वा स्वकीया. चार्याय वरं ददाति ब्राह्मणन्चेद् गाम्, क्षत्रियश्चेद् ग्राम, वैश्य वेदश्वम्, अन्यच्च सुवर्णादिद्रव्यं यथाश्रद्धं यथाशक्ति ब्राह्मणेभ्यो दातुं संकल्पयेत् । ग्रामवचनं च कुर्युरित्यनेन शिष्टाचारप्राप्तं विलककरणाक्षतचन्दनमन्त्रविप्राशीर्वचनप्रतिष्ठामन्त्रपाठादिकं यथाकुलं यथादेशसमाचारं तत्र तत्र क्रियमाणमनुमन्येरन् । दिवाचेद्विवाहस्तदाऽस्तमिते ध्रुवं दर्शयति वरो वध्वाः । रात्रौ चेद्वरदानानन्तरमेव । तद्यथा ध्रुवमीक्षस्वेति प्रेपिता वधूः ध्रुवमसि ध्रुवं त्वा पश्यामि वैवि पोप्ये मयि मह्यं वाऽदाबृहस्पतिर्मया पत्या प्रजावती सजीव शरदः शतमित्यन्ते मन्त्रे वरेणोक्ते ध्रुवमीक्षते । सा वधूयदि ध्रुवं न पश्येन् तथापि पयामीत्येवं वदेन् । विवाहादारभ्य त्रिरात्रमक्षारालवणाशिनौ स्यातां जायापती । अधः खद्वारहिते भूभागे स्वास्तृत शयीयातां त्रिरात्रमेव । संवत्सरं समग्रं मिथुन नोपेयाता, द्वादशरात्रं पात्रं त्रिरात्रं चेति । एते विकल्पा मिथुनकरणशक्त्यपेक्षया । अत्र त्रिरात्रपक्षाश्रयणं चतुर्युत्तरकालं, हेतुस्तु व्याख्याने विहितः । इति विवाहकर्मपद्धतिः ॥ ८॥ ॥ * ॥
(गदाधरः)-' अथैना..."जति । अथ वर एनां कुमारीमग्नेरुत्तरतः उड़ीचीमुदङ्मुखीम् एकमिप इत्येतैः सप्तमन्त्रैः सप्तपदानि प्रक्रामयति प्रक्रमणं कारयति । कारितत्वात्सप्तपदानि प्रक्रमस्वेत्यध्येपणेति । कुमार्या दक्षिणपादं गृहीत्वा अग्रे अग्रे स्थापयतीत्यन्ये । विष्णुस्त्वानयविति सर्वत्र पसु मन्त्रेपु अनुपगः नतु सप्तमे मन्त्रे, तुल्ययोगित्वात्साकाडुत्वाच पूर्वमन्त्राणामिति कर्काचार्यः । अन्येषां भाष्यकाराणां पद्धतिकाराणां च मते सर्वमन्त्रेष्वनुपङ्गः । मन्त्रपाठो वरस्य । अत्रैव प्रयोग. एकमिपे विष्णुस्त्वानयतु । द्वे ऊर्ने विष्णुस्त्वा नयतु । त्रीणि रायस्पोपाय वि० । चत्वारि मायो भवाय वि० । पञ्च पशुभ्यो वि० । पड्तुभ्यो वि० । सप्तमे प्रक्रमे सखे सप्तपदा भव सा मामनुव्रता भवेति । प्रक्रमेषु सव्यपादस्य नातिक्रमणमिति रेणुदीक्षिताः । मन्त्रार्थः-इपे अन्नाय ऊर्जे वलाय रायस्पोपाय धनपुष्ट्यै मायः सुखं तस्य भव उत्पत्तिः पश्वादिभ्यस्तत्तसुखाय । सखे इहामुत्रमित्र सा त्वं सप्तपदा भूरादिसप्तलोकप्रख्याता भव मामनुवर्तिनी च भव । 'निष्कम'""""भवति' निष्कमणं पित्राप्रत्तामादाय गृहीत्वा निष्कामतीत्येतावदुच्यते । तदारभ्य कश्चित्पुरुषः उदकपूर्ण कुम्भ स्कन्धे गृहीत्वा विवाहान्नेईक्षिणतो वाग्यतम्नूष्णी तिष्ठेन् । 'उत्त... "पाम् । एकेपामा