________________
९१
refuser ]
प्रथमकाण्डम् |
स्यामुकशर्मणः पुत्राय इति वरपक्षे | अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्रीममुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः पौत्रीम् अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः पुत्रीमिति कन्यापक्षे । एवमेव पुनर्द्विवारमभिहिते अथ कन्यापिता कुशजलाक्षतपाणिः उदङ्मुखोपविष्टः प्राङ्मुखोपविष्टाय वराय प्रत्यङ्मुखोपविष्टां कन्याम्, अमुकगोत्रायामुकप्रवरायामुकशर्मणे ब्राह्मणाय - इति ब्राह्मणवरपक्षे, इतरवरपक्षे तु वर्मणे अमुकगुप्तायामुकदासायेति विशेष:- अमुकगोत्राममुकप्रवराममुकनाम्नीमिमां कन्यां सालङ्कारां प्रजापतिदैवतां पुराणोक्तशतगुणीकृतज्योतिष्टोमातिरात्रसम फलप्राप्तिकामः कन्यादानफलप्राप्तिकामो वा भार्यात्वेन तुभ्यमहं संप्रददे इत्युक्त्वा, सकुशाक्षतजलं कन्यादक्षिणहस्तं वरदक्षिणहस्ते दद्यात् । वरश्च द्यौस्त्वा ददातु पृथिवी त्वा प्रतिगृहात्वित्यनेन मन्त्रेण तां प्रतिगृहीयात् । अथ कोऽदादिति कामस्तुतिं पठेत् । ततः कृतैतत्कन्यादानप्रतिष्ठासिद्धयर्थं सुवर्ण गोमिथुनं च दक्षिणां दद्यात् । अत्राऽऽचारात् अन्यदपि यौतकत्वेन सुवर्णरजतताम्र गोमहिष्यश्वग्रामादि कन्यापिता यथासंभवं ददाति, अन्येऽपि वान्धवादयः यथासंभवं यौतकं प्रयच्छन्ति । केचन यौतकं होमान्ते प्रयच्छन्ति, अत्र देशाचारतो व्यवस्था । एवं पित्रा दत्तां गृहीत्वा प्रतिग्रहस्थानान्निष्का मति । यदैपिमनसादृरंदिशोऽनुपवमानोवा । हिरण्यपर्णोवैकर्णः सत्वामन्मनसांकरोत्वमुति इत्यन्तेन मन्त्रेण । अथ निष्क्रमणप्रभृत्येको जलपूर्णकलशं स्कन्धे निधायाग्नेर्दक्षिणतो वाग्यत ऊर्ध्वस्तिष्ठति उत्तरतो वा अभिषेकपर्यन्तम् । अथैनौ वधूवरौ अग्निसमीपमागतौ कन्यापिता परस्परं समीक्षेथामिति प्रेपेण समीक्षयति । ततः प्रेषितो वरः समीक्षमाणां कन्यां समीक्षमाणः अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । वीरसूर्देवकामा स्योना शन्नो भव द्विपदेशं चतुष्पदे सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽभिप्रे पतिस्तुरीयस्ते मनुष्यजा: । सोमोऽददइन्धर्वाय गन्धर्वोदददग्नये । रथिं च पुत्राश्चादादद्भिर्मह्यमथो इमाम् । सा नः पूषा शिवतमा मेरय सा न ऊरू उशती विहर | यस्यामुशन्तः प्रहराम शेषं यत्यामु कामा वहवो निविष्टयै । इत्यादिकान् चतुरो मन्त्रान्पठति । ततः प्रदक्षिणमग्निं परीत्य पश्चादग्नेः पूर्वस्थापिततेजनीकटयोरन्यतरे दक्षिणं पादम कृत्वोपविशति वरः । तस्य दक्षिणतो वधूः । ततो ब्रह्मोपवेशनादि चरुवर्ज पर्युक्षणान्तं कुर्यात् । इयाँस्तु विशेष:- शमीपलाशमिश्रा लाजाः, अश्मा, अखण्डलोहितमानडुहं चर्म, कुमाभ्राता, शूर्पं, दृढपुरुषः, आचार्याय वरद्रव्यमित्येतावन्ति वस्तूनि उपकल्पयेत् न प्रोक्षेत् । ततः स्रुवमादाय दक्षिणं जान्वाच्य आधारावाज्यभागौ महाव्याहृतयः सर्वप्रायश्चित्तं ब्रह्मान्वारन्धो हुत्वा राष्ट्रभृज्जयाभ्यातानाग्निरैत्वित्यादिकान्परंमृत्यवित्यन्ताननन्वारब्धो जुहुयात् । प्राशनान्ते वा परंमृत्यविति । तद्यथा ॐ प्रजापतये स्वाहा इदं प्रजापतये | इन्द्राय स्वाहा इदमि - न्द्राय । अग्नये स्वाहा इदमग्नये । सोमाय स्वाहा इदं सोमाय । भूः स्वाहा इदमनये । भुवः स्वाहा इदं वायवे । स्वः स्वाहा इदं सूर्याय । त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडो अवयासिसीष्ठाः । यजिष्ठोव्वहितमः शोशुचानो विश्वा द्वेपासि प्रमुमुग्ध्यस्मत्स्वाहा । इदमग्नीवरुणाभ्याम् । सत्वन्नो अग्नेवमोभवातीनेदिष्टोअस्याउपसोन्युष्टौ । अवयवनो वरुणर्ट रराणो वीहि मृडीक - सुहवोन एधिस्वाहा । इदमनीवरुणाभ्याम् । अयाश्चाग्नेस्यनभिशस्तिपाश्च सत्यमित्वमया असि । अयानोयज्ञं वहास्ययानोघेहि भेषजथं स्वाहा इदमग्नये अयसे । येते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभिनों अद्य सवितोऽतविष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा । इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्त्रर्केभ्यश्च । उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमं श्रथाय । अथाव्त्रयमादित्यत्रतेतवानागसो अद्वितये स्याम स्वाहा इदं वरुणाय० । ब्रह्मान्वारब्धो हुत्वा ततो राष्ट्रभृतो यथा । ऋतापाद्धृतधामाग्निर्गन्धर्वः स न इदं