________________
पारस्करगृह्यसूत्रम् ।
[अष्टमी ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वाट् । इदमृतासाहे ऋतधाम्नेऽग्नयेगन्धर्वाय न० । ऋतापाइतधामानिर्गन्धर्वस्तस्यौषधयोऽप्सरसोमुदोनामताभ्यः स्वाहा इदमोपधिभ्योऽप्सरोभ्यो मुझ्यो न मम । सह हितोविश्वसामासूर्योगन्धर्वः सनइदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वाट् । इदं साहिताय विश्वसाम्ने सूर्याय गन्धर्वाय । साहितो विश्वसामा सूर्योगन्धर्वस्तस्यमरीचयोऽप्सरस आयुवो नाम ताभ्यः स्वाहा । इदं मरीचिभ्योऽप्सरोभ्य आयुभ्यः । सुपुम्णः सूर्यरश्मिश्चन्द्रमागन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वाद् इदं सुपुम्णाय सूर्यरश्मये चन्द्रमसे गन्धर्वाय । सुपुम्णः सूर्यरश्मिश्चन्द्रमागन्धर्वस्तस्य नक्षत्राण्यप्सरसोभेकुरयो नाम ताभ्यः स्वाहा इदं नक्षत्रेभ्यो ऽप्सरोभ्यो भेकुरिभ्यः । इपिरोविश्वव्यचावातोगन्धर्वः सनइदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वाट्। इदामिपिरायविश्वव्यचसे वातायगन्धर्वाय । इपिरो विश्वव्यचा वातोगन्धर्वस्तस्यापोऽप्सरसऊोनाम ताभ्यः स्वाहा । इदमयोऽप्सरोभ्यऊर्य: । भुज्युः सुपर्णो यज्ञोगन्धर्वः सन इदं ब्रह्मक्षत्रं पातु तस्मैस्वाहा व्वाट् । इदं भुज्यवेसुपर्णाय यज्ञाय गन्धर्वाय । भुज्युः सुपर्णोयज्ञोगन्धर्वतस्यदक्षिणा अप्सरस्तावा नाम ताभ्यः स्वाहा । इदं दक्षिणाभ्योऽप्सरोभ्यस्तावाभ्यः । प्रजापतिर्विश्वकर्मामनोगन्धर्वः स नइदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा व्वाट् । इदं प्रजापतये विश्वकर्मणे मनसे गन्धर्वाय । प्रजापतिर्विश्वकमिनोगन्धर्वस्तस्य अक्सामान्यप्सरसएटयोनामताभ्यः स्वाहा । इदमृक्सामभ्योऽप्सरोभ्यएष्टिभ्यः । केचित्तु अन्यथा मन्त्रप्रयोगं कुर्वन्ति तत्प्रदश्यते । तापाइतधामाग्निर्गन्धर्वः सनइदं ब्रह्मक्षत्रं पातुतस्मै स्वाहा व्वाट् इति प्रथमः । तस्यौपधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहेति द्वितीयः । एवं सर्वत्र मन्त्रेषु। अस्मिन्नपि पक्षे त्यागास्तु त एव । अथ जयाहोमः । चित्तं च स्वाहा इदं चित्ताय १ चित्तिश्च स्वाहा इद चित्त्यै २ आकूतं च स्वाहा इदमाकूताय ३ आकृतिश्च स्वाहा इदमाकूत्यै ४ विज्ञातं च वाहा इई विज्ञाताय ५ विज्ञातिश्च स्वाहा इदं विज्ञात्यै ६ मनश्च स्वाहा इदं मनसे ७ शकरीश्च स्वाहा इदं शकरीभ्यः ८ दर्शश्च स्वाहा इदं दर्शाय ९ पौर्णमासं च स्वाहा इदं पौर्णमासाय १० बृहच्चस्वाहा इदं वृहते ११ रथन्तरं च स्वाहा इदं रथन्तराय १२ चित्तं चेत्येवमादीनां पदानां चतुर्थ्यन्तानां प्रयोग केचिदिच्छन्ति तदसाम्प्रतम् । कुतः । नह्येतानि देवतापदानि किं तु मन्त्रा एवैते मन्त्राश्च यथाऽऽनाता एवं प्रयुज्यन्ते । प्रजापति यानिन्द्राय वृष्णे प्रायच्छदुनः पृतनाजयेपु । तस्मैविशः समनमन्त सर्वाः स उग्रः सइ हव्यो बभूव स्वाहा इदम्प्रजापतये [जयानिन्द्राय?] । अथाभ्यातानाः । अग्निभूतानामधिपतिः समावत्वस्मिन् ब्रह्मण्यस्मिन्क्षत्रेस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मण्यस्यां देवहूत्वाछवाहा इदमनये भूतानामधिपतये । इन्द्रो ज्येष्टानामधिपतिः समावत्वित्येवमादिस्वाहाकारान्तो मन्त्रः । इदमिन्द्राय ज्येष्ठानामधिपतये । एवं समावत्वस्मिन्नित्यादिवक्ष्यमाणेपु सर्वमन्त्रेष्वनुषङ्गः । यमः पृथिव्या अधिपतिः इदं यमाय पृथिव्या अधिपतये । वायुरन्तरिक्षस्याधिपतिः । इदं वायवेऽन्तरिक्षस्याधिपतये । सूर्यो दिवोऽधिपतिः इदं सूर्याय दिवोऽधिपतये । चन्द्रमानक्षत्राणामधिपतिः इदं चन्द्रमसे नक्षत्राणामधिपतये । वृहस्पतिर्ब्रह्मणोऽधिपतिःइदं वृहस्पतये ब्रह्मणोऽधिपतये । मित्रः सत्यानामधिपतिः इदं मित्राय सत्यानामधिपतये । वरुणोऽपामधिपतिः इदं वरुणायापामधिपतये । समुद्रः स्रोत्यानामधिपतिः इदं समुद्राय स्रोत्यानामधिपतये । अन्न साम्राज्यानामधिपति तन्मावत्वस्मिन् इत्यादि इदमनाय साम्राज्यानामधिपतये । सोम ओषधीनामधिपतिः इदं सोमायौषधीनामधिपतये । सविता प्रसवानामविपतिः इदं सवित्रे प्रसवानामधिपतये । रुद्रः पशूनामधिपतिः इदं रुद्राय पशूनामधिपतये । उदकस्पर्शनम् । त्वष्टा रूपाणामधिपतिः इदं त्वष्ट्रे रूपाणामधिपतये । विष्णुः पर्वतानामधिपतिः इदं विष्णवे पर्वतानामधिपतये । मरुतो गणानामधिपतयस्तेमावन्त्वस्मिन् । इदं मरुयो