________________
पारस्करगृह्यसूत्रम् ।
[अष्टमी विष्टर इत्यन्येन श्राविते प्रतिगृह्यतामिति यजमानदत्तं विष्टरं प्रतिगृह्य वमोऽस्मीति मन्त्रेण पादयोरवस्तान्निदधाति । ततोऽर्थोऽर्थोऽर्घ इत्यन्येन श्रावितेऽर्चयिता प्रतिगृह्यतामित्युक्त्वा अर्ध्यायार्घम् , आपः स्थ युष्माभिः सर्वान्कामानवाप्तवानीति मन्त्रं पठितवते प्रयच्छति | अर्घ्यश्वार्घ प्रतिगृह्य मूर्द्धपर्यन्तमानीय समुद्रं वः प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टास्माकं वीरा मापरासेचिमत्पय इत्यनेन मन्त्रेण निनयन्नभिमन्त्रयते । अथाचमनीयमाचमनीयमाचमनीयमित्यन्येन श्रावितेऽर्चयिताऽाय प्रतिगृह्यतामित्युक्त्वा आचमनीयं प्रयच्छति । अय॑श्च प्रतिगृह्य आमागन्यशसा सम-सृज वर्चसा तं मा कुरु प्रिय प्रजानामधिपतिं पशूनामरिष्टिं तनूनामिति मन्त्रेण सकृदाचम्य स्मार्तमाचमनं करोति । अथ मधुपर्को मधुपकों मधुपर्क इत्यन्येनोक्ते प्रतिगृह्यतामिति यजमानेनोक्ते यजमानहस्तस्थितमुद्घाटितं मधुपर्क मित्रस्य त्वा चक्षुषा प्रतीक्षे इति मन्त्रेण प्रतीक्ष्य देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति मन्त्रेणाञ्जलिना प्रतिगृह्य सव्ये पाणौ निधाय दक्षिणस्य पाणेरुपकनिष्ठिकयाऽङ्गुल्या नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामीति मन्त्रेण सकृदालोड्य पुनमन्त्रेणैवं द्विरालोडयति । अनामिकाङ्गुष्ठाभ्यामादाय बहिनिक्षिप्य पुनरेवं द्विर्वाग्मालोडनं निरुक्षणं च करोति । ततो यन्मधुनो मधव्यं परम रूपमन्नाचं तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मबन्योऽन्नादोऽसानीति मन्त्रेण अनामिकाङ्गुष्ठाभ्यामादाय त्रिः प्राश्नाति । मधुव्वातारतायत इत्यादिभिस्तिसृभित्र ग्भिः प्रत्यूचं त्रिः प्राश्नाति वा । प्राशितशेपं पुत्राय शिष्याय वा दद्यात्सर्व वा भक्षयेत्पूर्वस्यां दिशि असंचरे प्रदेशे वा क्षिपेत् । ततः स्मातेन विधिनाऽऽचम्य वाड्म आस्येऽस्त्विति कराग्रेण मुखं स्पृशति नसोमें प्राणोऽस्त्विति दक्षिणवामे नासारन्ध्रे अक्ष्णोमें चक्षुरस्त्विति दक्षिणोत्तरे चक्षुषी कर्णयोमें श्रोत्रमस्त्विति दक्षिणं श्रोत्रं संस्पृश्य पुनः कर्णयोमें श्रोत्रमरित्वति वाममेवं बाह्वोर्मे वलमस्त्विति दक्षिणोत्तरी वाहू ऊोंमें ओजोऽस्त्विति युगपदूरू अरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह सन्विति शिरःप्रभृतीनि पादान्तानि सर्वाण्यङ्गान्युभाभ्यां हस्ताभ्यामालभेत । एवमाचान्तोदकाय खड्गहस्तो यजमानः गोगोंगारालभ्यतामिति ब्रूयात् । ततोऽयः, माता रुद्राणां दुहिता वसूना स्वसादित्यानाममृतस्य नाभिः । अनुवोचञ्चिकितुषे जनाय मा गामनागामदितिं वषिष्ट मम चामुकशर्मणो यजमानस्य च पाप्मान हनोमीति गवालम्भपक्षे प्रतिब्रूयात् । उत्सर्गपक्षे तु मातारुद्राणामित्यादि पाप्माहत ओमित्युपाशूक्त्वा उत्सृजत तृणान्यत्त्वित्युच्चैः प्रतिब्रूयात् । ततो वरो बहि:शालायामीशान्यां दिशि चतुईस्तायां सिकताच्छन्नायां वेदिकायां लौकिकं निर्मथ्यं वाऽग्निं स्थापयित्वा पश्चादग्नेस्तृणपूलकं कट वा स्थापयेत् । अथ कन्यापिता वस्त्रचतुष्टयं वराय प्रयच्छति । वरश्च तेषु मध्ये, 'जरां गच्छ परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रयिं च पुत्राननु संव्ययस्वायुष्मतीदं परिधत्स्व वासः' इत्यनेन मन्त्रेण एकं कुमारी परिधापयति, द्वितीयं ' या अकृन्तन्नवयं या अतन्वत याश्च देवीस्तन्तूनभितो ततन्थ तास्त्वादेवीर्जरसे संव्ययस्वायुष्मतीदं परिधत्स्व वास:। इति मन्त्रेण । स्वयं च 'परिधास्य यशोधास्यै दीर्घायुत्वाय जरदष्टिरस्मि । शतं च जीवामि शरदः पुरुची रायस्पोपमभिसंव्ययिष्ये' इति मन्त्रेण एकं परिधत्ते । यशसामाद्यावापृथिवी यशसेन्द्रावृहस्पती । यशोभगश्चमा विदद्यशोमाप्रतिपद्यतामिति द्वितीयम् । अथ कुमार्याः पिता एतौ परिहिताहतसदशवस्त्रौ कन्यावरौ समजयति परस्परं समझेयामिति प्रैपेण । ततो वरः कन्यासंमुखीभूतः 'समजन्तु विश्वेदेवाः समापो हृदयानि नौ । संमातरिश्वा संघाता समुदेष्ट्री दधातु नौ । इतिमन्त्रं पठति । अथ कन्यादानं करोति पित्रादिः कन्यादानाधिकारी । तत्र वाक्यम्-अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः प्रपौत्राय अमुकगोत्रस्यामुकप्रवरस्यामुकशर्मणः पौत्राय अमुकगोत्रस्यामुकप्रवर