________________
Go राय धनपतसिंघ बदाउरका जैनागमसंग्रह भाग तेतालीस-(४३)-मा. मेणैहिकामुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्त्यादिलदणः प्रयत्नः कार्य इत्यर्थः । शह चैवैतदङ्गीकर्तव्यम् । सम्यग्ज्ञाते प्रवर्तमानस्य फल विसंवाददर्शनात्तथाचान्यैरप्युक्तम् “॥ विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता ॥ मिथ्याझानात्प्रवृत्तस्य, फलप्राप्तेरसंचवात् ॥” तथामुष्मिकफलप्राप्त्यर्थिनापि ज्ञात एव यतितव्यम् । तथा चागमोऽप्येवमेव व्यवस्थितः । यत उक्तम् “॥ पढमं नाणं त दया, एवं चिर सवसंजये ॥ अन्नाणी किं काही, किंवा पाहितिबेयपावगं ॥” इतश्च तदेवाङ्गीकर्तव्यम् । यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहार क्रियापि निषिद्धा। तथा चागमः “॥ गीयो य विहारो, वी गीयबमीसि चेव ॥ श्त्तो तश्यविहारो, णाणुना जिणवरेहिं ।” यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं न प्रतिपद्यत इत्यभिप्रायः । एवं तावदायोपशमिकं ज्ञानमधिकृत्योक्तं दायिकमङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम् । यस्मादहतोऽपि जवाम्बोधितटस्थस्य दीदा प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते यावजीवाजीवाद्यखिलवस्तुपरिछेदरूपं केवलज्ञानं नोत्पन्न मिति । तस्माज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् । इति ॥ जो जवएसो सो ण णामं ति। इत्येवमुक्तेन न्यायेन य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम ज्ञाननय श्त्यर्थः।अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिबति ज्ञानात्मकत्वादस्य वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वान्नेबति । गुणनूते चेति इति गाथार्थः । उक्तो ज्ञाननयः । अधुना क्रियानयावसरस्तदर्शनं चेदम् । क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वात्तथा चायमप्युक्तलक्षणामेव स्वपदसिद्धये गाथामाह ॥ णायंमि गिहियो, अगिहियवंमि चेव अबंमि ॥ जश्यत्वमेव जो, उवएसो सोनले नामं ॥ १५५ ॥ व्याख्या ॥ अस्याः क्रियानयदर्शनानुसारेण व्याख्या । झाते गृहीतव्ये अगृहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थना यतितव्यमेव । न य स्मात्प्रवृत्त्यादिलक्षण प्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यनिलषितार्थावाप्तिदृश्यते । तथा चान्यैरप्युक्तम् ॥ क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् ॥ यतः स्त्रीजयनोंगझो तज्ज्ञानाहुःखितो नवेत् । तथामुष्मिकफलप्रात्यर्थिना क्रियैव कर्तव्या । तथा च मौनीन्द्रप्रवचनमप्येवमेव स्थितम्।यत उक्तम् “॥चेश्यकुलगणसंघे, आयरियाण च पवयणसुए य ॥ सवेसु वि तेण कयं, तवसंजममुद्यम तेण ॥” इतश्चैतदेवमङ्गकित व्यम् । यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि अफलमेवोक्तम् । तथाचागमः “॥ सुवहुंपि सुयमहीयं, किं काहीचलणविप्पमुक्कस्स ॥अंधस्स जह पलित्ता, दो वसय सहस्स कोडीवि ॥" दृश्य क्रियाविकलत्वात्तस्येत्यभिप्रायः । एवं तावत्दायोपश