________________
दशवेकालिके द्वितीयाध्ययनम् ।
८१
I
मिकं चारित्रमङ्गीकृत्योक्तम् । चारित्रं क्रियेत्यनर्थान्तरम् । कायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैवं विज्ञेयम् । यस्मादर्हतोऽपि जगवतः समुत्पन्न केवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते यस्मादखिलकर्मेन्धनानलभूता दूखपञ्चाक्षरोच्चारणमाकालावस्था यिनी सर्व संवररूपा चारित्रक्रिया नावातेति । तस्मात् क्रियैव प्रधानमै हिकामुष्मिक फलप्राप्तिकारणमिति स्थितम् । इति । जो उवएसो सो एवं पामं ति । इति एवमुक्तन्यायेन य उपदेशः । किम् । क्रियाप्राधान्यख्यापनपरः स नयो नाम क्रियानय इत्यर्थः । यं च ज्ञानवचन क्रियारूपेऽस्मिन्नध्ययने क्रियारूपमेवेदमिच्छति । तदात्मकत्वादस्य ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति । गुणनूते चेछतीति गाथार्थः । उक्तः क्रियान्य श्वं ज्ञाननय क्रियानयस्वरूपं श्रुत्वाविदिततद निप्रायो विनेयः संशयापन्नः सन्नाह । किमत्र तत्त्वं पक्षद्वयेऽपि युक्तिसंजवादाचार्यः पुनराह ॥ ससि पि नयाणं, बहुविहवत्तवयं निसामेत्ता ॥ तं सवनयविसुद्धं, जं चरणगुण हर्ड साहू ॥ १५६ ॥ व्याख्या ॥ अथवा ज्ञान क्रियानयमतं प्रत्येकमनिधायाधुना स्थितपक्षमुपदर्शयन्नाह । सबेसि पि गाहा । सर्वेषामिति मूलनयानामपिशब्दात्तङ्गेदानां च Sourस्तिकायादीनां बहुविधवक्तव्यतां सामान्यमेव विशेषा एव उजयमेव वानपेक्ष्यमित्यादिरूपामथवा नामादीनां नयानां कः कं साधुभितीत्यादिरूपां निशम्य श्रुत्वा तत्सर्वनयविशुद्धं सर्वनयसंमतं वचनम् । यच्चरणगुण स्थितः साधुः । यस्मात् सर्वनया एव जावविषयं निदेपमिवन्तीति गाथार्थः । डुमपुष्किय निद्युक्त्ती, समास वन्निया विज्ञासाए || जिए चउदसपुर्वी विवरेण कहयंति से अहं ॥ १५६ ॥ डुमपुप्फयनिद्यत्ती संमत्ता । डुमपुष्पियगाहा सुगमा ॥
इत्याचार्य श्री हरिभद्रसूरिविरचितायां दशवैकालिकटीकायां डुमपुष्पकाध्ययनं
समाप्तम् ॥ १ ॥
व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया किंचित् ॥ सङ्घर्मलानमखिलं लतां नव्यो जनस्तेन ॥ १ ॥
अथ श्रामण्यपूर्वकाध्ययनम् ॥ २ ॥
कहं नु कुधा सामां, जो कामे न निवारए ॥ पर पर विसीदंतो, संकप्पस्स वसं ग ॥ १ ॥
( अवचूरिः) ॥ अथ द्वितीयाध्ययनम् । नु देपे । यथा कथं नु स राजा यो न रक्षाति । एवं कथं नु कुर्याद्ब्रामण्यं यः कामान्न निवारयति । किमिति न करोति । तत्र हेतुमाद | पदे पदे विषीदन् संकल्पस्य वशं गतः । कामानिवारणेनेन्द्रियाद्यपराधपदा
११