________________
पठोsधिकारः ।
१५ दे
एकत्वगतो वितर्क एकत्ववितर्कः, त्रयाणामेक एव योगस्तथार्थव्यञ्जनमपि एकमेव । तथा च फलितलक्षणमुच्यतेउत्पादव्ययधौव्यादिपर्यायाणामेकस्मिन् पर्याये निष्प्रकम्पपूर्व गतभूतानुसारिचेतसा चिन्तनरूपत्वं वा, पर्यान्तरानर्वितक पर्याय चिन्तनरूपत्वं वा द्वितीयशुक्लध्यानस्य लक्षणम्, निर्वातस्थप्रदीपवत् । आधे शुध्याने पूर्वविदो भवतः ।
परे द्वे केवल त्रयोदश चतुर्दशगुणस्थानयोः क्रमेण भवतः, न छद्मस्थस्य ।
तदेतच्चतुर्विधशुक्लध्यानं त्रियोगायोगानां भवति । तत्र त्रियोगानां पृथक्त्ववितर्क लक्षणप्रथमशुक्रुध्यानम्, त्रयाणां मध्येऽन्यतमै कयोगानामेकत्वंवितर्क लक्षणद्वितीयशुक्लध्यानम्, काययोगानां सूक्ष्मक्रियाप्रतिपत्तिलक्षणवृतीयशुक्लध्यानम् । अयोगानां व्युपरतक्रियानिवृत्तिलक्षणचतुशुक्लध्यानम् ।
·
एकद्रव्याश्रये सवितर्फे पूर्वध्याने, तत्रापि सविचारं प्रथमम्, अविचारं द्वितीयम् ।
एतदभ्यन्तरतपः संवरत्वाभिनवकर्मोपचयप्रतिषेधकं पुराणकर्मनिर्जरकं पूर्वोपचितकर्मनिर्जरत्वांश्च निर्वाणमा- |
पकम् ।
किंच, सम्यग्न्यादीनां क्रमशोऽसंख्येयगुणनिर्जरा भवति । तथाहि - सम्यग्दृष्ट्यपेक्षया श्रावकस्यासंख्येयगुण