________________
जैनतस्वदीपेयत् तद्रूपत्वमेकत्वविनको विचारशुक्लध्यानस्य लक्षणम् ।
सूक्ष्मक्रियाप्रतिपातिरूपत्वं वा निरुद्धयोगद्वयावस्थाव. स्वे सति केवलकायव्यापारवतां यद्ध्यानं तत् तृतीयशु. क्लध्यानस्य लक्षणम् ।
व्युपरतक्रियानिवृत्तिरूपत्वं वा शैलेश्यवस्थानां हस्वाक्षरोचारणसमकालानां योगत्रयरहितानां यद्ध्यानं भवति तत् चतुर्थशुक्लध्यानस्य लक्षणम् ।
. पृथक्त्ववितर्कसमविचारैकत्ववितर्कामविचारलक्षणे शुक्लध्याने उपशान्तकषायक्षीणपाययोर्भवतः ।
अथ भावार्यः प्रतिपाद्यते
घण्णां द्रव्याणां मध्ये एकद्रव्ये उत्पादव्ययध्रौव्यादिपर्यायानेकतयार्पितत्वं पृथक्त्वं तस्य चिन्तनं वितर्कसहचरिसं समविचारं यत्र तत् पृथक्त्ववितकसमविचार, तत्र वितर्कः श्रुतं विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः । तथा च फलितलक्षणमुच्यते--पूर्वगतमाङ्गकश्रुतानुपारेणार्थव्यञ्जनयोगान्तराणां यत्र संक्रान्तिस्तत्रैव निरोधरूपत्वं प्रथमशुक्लध्यानस्य लक्षणम् । ___ तथा चार्थाद् व्यञ्जनसंक्रान्तिः, मनोयोगात काययो. गसंक्रान्तिः, काययोगाद् मनोयोगसंक्रान्तिः, एवं वाग्योगाधनोयोगसंक्रान्तिः, काययोगसंक्रान्तिश्च। एवं रीत्यार्थव्यअनयोगसंक्रान्तिया ।