________________
१४८
जैनतत्त्वप्रदीपे
अथ ध्यानं प्रतिपाद्यते । तत्र प्रथमतो ध्यानंस्य सा
- मान्यलक्षणमुच्यते
.
उत्तम संहनन स्यैकाग्रचिन्तानिरोधरूपत्वं ध्यानसामी
न्यस्य लक्षणम् ।
तश्च ध्यानं चतुर्विधमार्त्तगैद्रधर्मशुक्लभेदात् । शोकाक्रन्दनविलपनादिरूपत्वमात्तध्यानस्य लक्षणम् । क्रूरपरिणामादिरूपत्वं रौद्रध्यानस्य लक्षणम् । जिनमणीवभावश्रद्धानादिनिमित्तकत्वं धर्मध्यानस्य
1
लक्षणम् ।
अवाध्या संमोहादिकरणरूपत्वं शुक्लध्यानस्य लक्षणम्। तच्च ध्यानमन्तर्मुहूर्त्तकालपरिमाणं भवति, नाधिकं, शक्त्यभावात्, मोहनीय कर्मानुभावात्, केशाद् वा । तादृशचतुर्विधध्यानानां मध्ये धर्मशुक्ले मोक्षहेतू भवतः, आर्त्तरौद्रे च संसारहेतू भवतः ।
१ अत्र उत्तमसंहननपदेन वज्रर्षभनाराचपेभनाराचमाराचलक्षणानि त्रीणि संहननानि गृह्यन्ते, तद्वदेकाग्र चिन्तानिरोधो ध्यानमुच्यते, तथा चोत्तमसंहननस्यैकस्मिन्नालस्वनीभूते पदार्थे चिन्ता - निरोधो यः तद् ध्यानं कथ्यते । चिन्तानिरोधस्तु, चलचित्तमेव चिन्ता तस्य निरोध एकत्रावस्थापनम्, अन्यत्र प्रचारनिरोधो वा, तत्र च्छद्मस्थविषयं ध्यानं निश्चलं स्थिरमध्यवसानमेकालम्बनीभूतम् केवलिनां पुनर्योगनिरोध एव ध्यानं मनसोऽभावात् न हि अवातकेवलस्य मनोव्यापारः समस्ति, सकलकरणप्रामनिरपेक्षत्वात् ।
"