________________
१५४
जैनतत्त्वप्रदीपेनिर्जरा भवति, श्रावकापेक्षया विरतस्य, तदपेक्षयानन्तानुवन्धिवियोजकस्य, तदपेक्षया दर्शनमोहक्षपकस्य, तदपेक्षया मोहोपशमकस्य, तदपेक्षयोपशान्तमोहस्य, तदपेक्षया मोहक्षपंकस्य, तदपेक्षया क्षीणमोहस्य, तदपेक्षया जिनस्य ।
अस्य वैचित्र्यभागिन संवरचारित्रस्य के स्वामिन इति प्रदर्शनार्थमुच्यते,
पुलाकवकुशकुशीकनिग्रन्थस्नातका निर्ग्रन्या भवन्ति । कक्षणवाक्यं तु निगद्यते'निर्वाणहेतुभूतजिनोक्तागमादपरिभ्रष्टश्रद्धानपूर्वकज्ञा. नानुपारेण क्रियानुष्ठायित्वे सति लब्ध्युपजीवितरूपत्वं पुंलाकनिम्रन्यस्य लक्षणम् ।
सच पुलाकः पञ्चविधः, ज्ञान-दर्शन-चरण लिन सूक्ष्मपुलाकभेदात् , तेषां क्रमेण लक्षणमुच्यते ।
आवश्यकादिसूत्रविषयकस्खलनादिकरणरूपत्वं ज्ञानपुलाकस्य ।
कुदृष्टिभिः सह संस्तवादिकरणरूपत्वं दर्शनपुलाकस्य । मूळोत्तरगुणप्रतिसेवनासंपादनत्वं चरणपुलाकस्प । .
प्रवचनोतलिङ्गस्याधिकरणरूपसंपादनत्वं लिङ्गला. कस्य । . . .. किश्चित्ममादकरणरूपत्वं सूक्ष्मपुलाकस्य । .....