SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ १३४ कुर्वतो बधपरीषहजयो भवेत् । याचना मार्गणा, साधोर्वस्त्रपौत्रान्नपानमतिश्रयादेः परतस्तस्य लब्धे सति न हर्षो, यदि च न लब्धं, न तदा शोकोऽपि, एवं कुर्वतो याचनापरीषहजयो भवेत् । जैन तत्व प्रदीपे + अलाभस्तु याचिते सति विद्यमानमपि अन्नपानादिकं कदाचिद् ददाति कदाचिच्च न, कस्तत्रासन्तोषाऽवकाशः, एवं विचारयतोऽलाभपरीपहजयो भवेत् । रोगो ज्वरा - तिसार-कास-श्वासादिकरूपः, तस्य प्रादु सत्यपि न चिकित्सां प्रति प्रवर्तेत, प्राक् कर्मणां प रिपाकोऽयमिति चिन्तयेत्, गच्छ्वासिनस्तु अल्पबहुत्वालोचनया सम्यक् सहन्ते प्रवचनोक्तविधिना । एवं कुर्वतो रोगपरीषहजयो भवेत् । · अशुपिरतृणदर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छ्वासिनां च यत्र शयनमनुज्ञातं तत्र तान् तृणदर्भादीन् भूमावास्तीर्य संस्तारोत्तरपटकौ च तदुपरि पिधाय ते शेरते । चौरापहृतोपकरणा वा प्रतनुकौ संस्तारोचरपट्टकावत्यन्तजीण वा, तथापि तत्परुषकुशदर्भादिणस्पर्श सम्यक सहन्ते । एवं कुर्वतः तृणस्पर्शपरीपहजयो भवेत् । मलस्तु रजः परागमात्रं स्वेदवारिसंपर्ककठिनीभूते वपुषि स्थिरतां प्राप्तो ग्रीष्मोष्यसंतापजनितधर्मजलार्द्रवां
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy