________________
पञ्चमोऽधिकारः।
१२६ एव ममायो भवति, श्लेप्पणा द्रवीकृतोऽत्यन्ताऽशुचिर्भवति, ततः पित्ताशयं प्राप्य पच्यमानोऽम्लीभूतो भवति, वतो वायुना विभक्तः पृथग् रसरूपः खलीभूतस्याऽशुचिरूपो भवतीत्यादिरीत्योत्तरकारणस्याऽशुचित्वादशुचिभूतमेव शरीरमिति । शरीरकर्णनासादि खलु अशुचिभाजनम् , कललार्जुदपेशीधनव्यूहसंपूर्णगर्भकौमारयौवनादिनननरूपाऽशुभपरिणामस्य मलादीनामुद्भवरूपपरिणामस्य 'चाशुचित्वादशुचीभूनमेव शरीरम् । पाकेनानुबन्धाद् दुर्गन्धिस्वभावं दुरन्तं भवति, तस्मादशुचिभूतमेव शरीरम् । __ मनोवाक्कायलक्षणयोगाः शुभाशुभकर्म यस्मादाश्र. वन्ति स आश्रयः । ततश्च श्रोत्रादीन्द्रियविपयप्रसक्तहरिणादिवद् विनिपातमपि गच्छत्तीति चिन्तनानुरूपत्वम्, कायिकादियोगादिभ्यः शुभाशुभकर्मागमनानुचिन्तनरूपत्वं वा आश्रवभावनाया लक्षणम् ।
महात्रतपरिपालनसाहाय्यीभूनगुप्त्यादीनां मूलोत्तरगुणवञ्चिन्तनानुरूपत्वं, यद्यदुपायकको यो य आधबनिरोधस्तचदुपायाऽनुचिन्तनरूपत्वं वा संवरभावनाया लक्षणम् ।
तादृशोपायश्च प्रतिपाद्यते--
समया क्रोध, मृदुत्वेन मान, ऋजुत्वेन मायां, संतोपेण डोभ, अखण्डसंयमेन विषयांश्च बन्ध्यातू । विसभि