________________
१२८
जैनतत्त्वप्रदीपेसमुद्रे परित्रायको नास्तीतिचिन्तानुरूपत्वं वाऽशरणभाव. नाया लक्षणम् ।
· रागद्वेषांऽनुभावस्वरूपसंसारे चक्रवज्जन्मजरामरणा. दिरूपेण भ्रमणानुचिन्तनरूपत्वं, रागद्वेषमोहाभिभूतजन्तुभिरन्योन्याभिघातववन्धाक्रोशजनितानि दुःखानि प्राप्यन्ते, अहो ! कटरूपः खलु संसारः, इति चिन्तनारूपत्वं वा संसारभावनाया लक्षणम् । __ एवं चिन्तयतः संसारभयं भवति, तस्मानिर्वेदः, निर्विण्णश्च संसारपरिहाणाय घटते ।
एकाकिपरिभोक्तृत्वरूपेण जन्मजरामरणादिक्लेशा-, ऽनुचिन्तनरूपत्वम्, एक एवाई न मे कश्चित् स्वकीयः परकी. यो वा विद्यते, एक एव जाये, म्रिये वेवि चिन्तनारूपत्वं . वा एकत्वभावनाया लक्षणम् । ।
शरीरादिभ्योऽपि आत्मनो भेदानुचिन्तनरूपत्वम् , अन्योऽहम् , अन्यच्छरीरमिति शरीरातानार्भेदानुचिन्तनरूपत्वं वा अन्यत्वभावनाया लक्षणम् । • आशुत्तरकारणाऽशुचित्वाऽशुचिभाजनत्वा-शुचिपरिणामपाकाऽनुवन्धस्वरूपाऽशुचित्वादिरूपं खलु शरीरमिति चिन्तनाऽनुरूपत्वमशुचिभावनाया लक्षणम् । ___ अयं भाव:- शरीरस्याचं कारणं शुक्रशोणितरूपं, तचाऽत्यन्ताशुचिरूपं भवति । तथा कवलाहारादिप्रस्तमात्र