________________
चतुर्थोऽधिकारः। • . तद्यया-ज्ञानावरणस्य फलं ज्ञानावरोधः । दर्शनाधरणस्य दर्शनशक्त्यवरोध इत्यादि। . • यथा येनाऽध्यवसायविशेषेण याशरूपं बद्धं कर्म तचया तेनैव प्रकारेण विपच्यते, अन्यमकारेणापि । विपाको रसः, स च तीव्रमन्दमध्यमाद्यवस्थाभेदभिन्नः।
तत्र कदाचिच्छुभमपि अशुभतयाऽनुभूयते, अशुभं च शुभरसतयेति । स चानुभावसंज्ञो रसस्तीत्रादिभेदाभिनोऽनेकप्रकारकः कर्मणि भवति । तत्र च किञ्चित् कर्म पुद्गलेषु विपच्यते, पुद्गलांन् परिणमयति नानाप्रकारेणेत्ययः, तत्पुद्गलविपाकीत्युच्यते।
' किञ्चित् कर्म भवाविपाकि भवति, प्राप्तजन्मनः शरीरपदात्मनि विपच्यते,अपरंतु क्षेत्रविपाकि क्षेत्रान्तरे विपच्यते, अन्यत् किचिज्जीवविपाकि जीव एव विपच्यते । - ज्ञानावरणादीनां समभेदानां प्रत्येकमन्वर्थनिर्देशः कृतः।
यदि विपाकोऽनुभाव इति कथ्यते तर्हि तत् कर्मानुभूतं सद किमावरणवदवतिष्ठते उत निःसारं सत् प्रच्यवते ? इति शङ्कायर्या समाधीयते । तस्माद् विपाकलक्षणानुभवाव कर्मणो निर्जरणं भवति, आत्मप्रदेशेभ्यः पतिपतन भवतीत्यर्थः । निर्जरा क्षयो वेदनेति पर्यायाः। तत्र निर्जरा हानि:, क्षयो विनाशा, कर्मपरिणतेर्विगमो वेदना, रसा. नुभव आर्मफळोपभोगपरिसमाप्तेः। . . .