________________
___ जैनतत्त्वप्रदीपे___ कथितो मूळप्रकृतिवन्धः । अधुना स्थितिबन्धो निरूप्यते ।
स्थितिरवस्थानं वन्धकादारभ्य यावदशेपं निर्जीयवे तावत्पर्यन्ता । लक्षणं तु प्रागुक्तमेव ।।
अधुना प्रत्येककर्मप्रकृतीनां स्थितिः प्रतिपाद्यते
ज्ञान-दशनावरण-वेदनीया-ऽन्तरायलक्षणमकृतीनां त्रिंशत्सागरोपमकोटाकोटिलक्षणा परा स्थितिः।
नामगोत्रप्रकृतीनां विंशतिसागरोपमकोटाकोटिलक्षणा परा स्थितिः। : आयुपस्त्रयस्त्रिंशत्सागरोपमळक्षणा परा स्थितिः ।
जघन्या वेदनीयस्य द्वादशमुहूर्ता । अन्तर्मुहूर्ताऽपि मतान्तरे।
शेषाणां ज्ञान-दर्शनावरण-मोहनीया-ऽऽयुष्का-ऽन्तरा. याणामन्तर्मुहूर्ता जघन्या स्थितिः ।
उक्तः स्थितिवन्धः । अधुनाऽनुभागवन्धः मतिपाद्यते
अनुभागो नाम विपाका, विविधं पचन विपाका, उदयावलिकायां कर्मदलिकानां प्रवेशः, अथवा कर्मणां विशिष्टो नानाभकारो वा पाको विपाकः ।
अप्रशस्तपरिणामानां तीव्रता, शुभपरिणामानां म. न्दता । यथोक्तकर्मविशेषाऽनुभवनं सर्वासां कर्मप्रकृतीनां फलम् । विपाकोदयानुभवनं वन्धादारभ्याबाधाकाळं मः . क्त्वा जीवस्यानुसमयं कर्मानुभवनम् ।