SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ११२ जैनतत्त्वप्रदीपे___ सर्वजीवानामात्मीयशरीरावयवानां विन्यासनियमनिमित्तकत्वं निर्माणनायकर्मणो लक्षणम्, प्रासादादिनिमणिकलाकौशलोपेतवर्धकीवत् । शरीराङ्गोपाङ्गानां यस्योदये सति अनेकधोपघात: क्रियते तद्रूपत्वं, स्वशरीरावयवलम्बिकादिभिः स्वावयवानां विघातोयनिमित्तको भवति तद्रूपत्वम, स्वकीयपराक्रमाद्यपघातजनकत्वम् , यस्योदये सति स्थपरकृतोद्वन्धनायुपघातो भवति तद्रूपत्वं वोपघातनामकर्मणो लक्षणम् । द्वीन्द्रियादित्रसभावनिर्वर्तकत्वम् ,यस्योदये सति द्वीन्द्रियादिवत्पत्तिर्भवति तद्रूपत्वं वा त्रसनामकर्मणो लक्षणम् । यस्योदये सति जीवानां स्थूलत्वलक्षणवादरत्वं स्यात् तद्रूपत्वं, स्थूलस्वरूपवादरशरीरनिर्वर्तकत्वं वा बादरनामकर्मणो लक्षणम् । • यनिमित्तकाहारादिवर्गणाद्रव्याणामादानपरिणामयोः शक्तिरुत्पन्ना तद्रूपत्वं पर्याप्तनामकर्मणो लक्षणम् । साच पोहा, आहार-शरीरे-न्द्रिय श्वासोच्छ्वास-भाषामनःपर्याप्तिभेदात् । शरीरेन्द्रियवामनःप्राणापानयोग्यवर्गणादलिकद्रव्याहरणक्रियांपरिसमाप्तिरूपत्वमाहारपयोमलक्षणम् । • निजोचितगृहीताहारवर्गणाद्रव्याणां पृथक् खलरस: रूपेण परिणतिर्यनिमित्ता भवति तद्रूपत्वम् , रसीभूताहार- . स्य शरीरयोग्या परिणतियन्निमित्ता भवति तद्रूपत्वम् ।...
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy