________________
चतुर्थोऽधिकारः। . ११ अधोगामिसपीरणरूपत्वमपानस्य लक्षणम् । माणापानौ चानन्तमदेशपुद्गलस्कन्धपरिणामजन्यौ।
आतपशक्तिजननसामर्थ्यनिमिचकत्वमातपनामकर्मणो लक्षणम् । अथवा, यस्योदये सति स्वयं शीतस्वभावा अपि परान् तापयन्ति तद्रूपत्वम् । तंच. सूर्यमण्डलवतिवादरपृथिवीकायेषु एव विपच्यते, नान्यत्र ।
अनुष्णप्रकाशसामर्थ्यजनकत्वमुद्द्योतस्य लक्षणम् । तच खद्योतादिषु ज्ञेयं, न सूर्यमण्डलाग्न्यादौ ।
अगुरुकघुपरिणामनियामकत्वमगुरुलधुनामकर्षणो लक्षणम् ।
भावार्थ उच्यते-यस्य फर्मण उदयात् कुन्थ्वादीनां सर्वजीवानामात्मीयशरीराणि न गुरुणि, नापि लघूनि च; किन्तु अगुरुलघुपरिणाममेवाऽवरुन्धन्ति तत्कर्माऽगुरुलघुशब्देनोच्यते । निश्चयनयापेक्षया सर्वद्रव्याणि स्थि. त्यादिस्वभावेन परिणमन्त इति जैनसिद्धान्तः। .
तत्र अगुरुलध्वाख्यो यः परिणामस्तस्य नियामक तदेव तत्रोद्भूतेतरशक्तिकं निधत्त इत्यगुरुलघु नाम । सर्वशरीराणि च निश्चयनयाश्रयाद् 'न गुरुलध्वादिव्यपदेश.
भाञ्जि । व्यवहारनयाश्रये तु अन्योन्यापेक्षया त्रैविध्य• मनुरुध्यन्ते।
यस्योदये सति त्रिभुवनस्यापि पूज्यो भवति तद्रूपत्वं तीर्थकृन्नामकर्मणो लक्षणम्। तच्च कैवल्यावस्थायां विपच्यते।