________________
११०
जैन तत्त्वप्रदीपे -
यामकं 'अनेनाङ्गोपाङ्गेनात्रैव विनिवेष्टव्यम् इत्येवरूपं नियमकारि आनुपूर्वीनामकर्म |
लब्धिशिक्षद्धिनिमित्तकत्वे सति आकाशगमननिमित्तकत्वम्, आकाशविषयकगमननिमित्तकत्वं वा विहायोगतिनांमकर्मणो लक्षणम् ।
तच्च द्वेधा, शुभाशुभभेदात् ।
तत्र प्रशस्ता गतिर्हसगजादीनाम्, अप्रशस्तोष्ट्रशृगालादीनाम् ।
लब्धिर्देवादीनां देवयन्युत्पन्नाविनाभाविनी, शिक्षया ऋद्धि: शिक्षर्द्धिः, तपस्विनां प्रवचनमधीयानानां विद्याद्यावर्त्तनप्रभावाद् वा । तथा च लब्धिशिक्षर्द्धिजन्यत्वे सति आकाशगमनभूतत्वं विहायोगतिनामकर्मणो लक्षणमिति फलितार्थ: i: 1
परं प्रति त्रासमतिघातादिजनकत्वं, दर्शनमात्रेण सभ्यानां क्षोभापादकरूपत्रासजनकत्वे सति परप्रतिभामतिघातजनकत्वं वा पराघातनामकर्मणो लक्षणम् ।
प्राणापानयोग्य पुद्गलादानसामर्थ्यजनकत्वम्, यन्निमित्तकोच्छ्वास निःश्वासौ भवतस्तद्रूपत्वं वोच्छ्वासनामकर्मणो लक्षणम् ।
लक्षणघटकप्राणापानौ प्रागुक्तावपि विशेषप्रतिपत्य
यमुच्येते --
ऊर्ध्वगामिसमीरणरूपत्वं प्राणस्य लक्षणम् ।