________________
११८
जैनतत्त्वप्रदीपे
सा च निर्जरा द्वेषा, विपाकजेतर भेदात् । तत्र बि.. पाकना संसारसमुद्रे परिभ्राम्यमाणस्यात्मनः शुभाशुभ- - कर्मणो विपाककालप्राप्तस्य यथायथमुदयावलिकाथोतसि पतितस्य फलोपभोगादुपजातस्थितिक्षये सति या निवृत्तिः सा विपाकजा निर्जरा भवति ।
यत्कर्माऽप्राप्तविपाककालमौपक्रमिक क्रियाविशेषसाम
र्यादनुदीर्णमपि वलादुदीर्योदयावलिकायामनुप्रविश्यते, पनसतिन्दुकाग्रफलपाकवत्, सा तु अविपाकजा निर्नरा भवति । तां तु 'तपसो निर्जरा भवति' इति व्याख्यानाऽवसरे प्रतिपादयिष्यामि ।
उक्तोऽनुभागबन्धः । अथ प्रदेशवन्धो निगद्यते । नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्राऽवगा - दस्थिताः सर्वात्मप्रदेशेषु अनन्ताऽनन्तप्रदेशाः । व्याख्या त्वस्य नामप्रत्ययाः पुद्गला ज्ञानावरणादिविघ्नपर्यवसानं नाम तस्य प्रत्ययाः कारणानि मिथ्यादर्शनादीनि सर्वतः तिर्यगूर्ध्वमधश्च बध्यन्ते । कायवाय्मनोलक्षणयोगविशेषाच सूक्ष्माश्च बध्यन्ते, न तु बादराः । अत्र च सूक्ष्मत्वमापेक्षिकम् । तथाहि - परमाणोरारभ्य यावदनन्तप्रदेशाः स्कन्धास्तावदपि अतिसूक्ष्मत्वान्न वन्धयोग्या भवन्ति । अनन्त'प्रदेशवर्गणायामपि केचिद् ग्रहणयोग्याः, केचिच्च न, अतः सूक्ष्मग्रहणम् । एवं क्रमेणौदारिक - वैक्रिय - आहारकतेजस - भाषा - प्राणापानमनोवर्गणां समुल्लङ्घ्य कर्मवर्ग