________________
जैनतत्त्वप्रदीपेणरूपत्वं, द्वेषबुद्ध्याज्यस्य दुःखोत्पादनरूपत्वं वा हिं. साया लक्षणम् ।
कपायादिप्रमादपरिणतात्मना सदुद्भूतनिहवाऽसद्भः तोद्भावनरूपत्वं, प्रमत्तयोगमाश्रित्य सद्भावप्रतिषेधरूपत्वे सति असद्भावोद्भावनरूपत्वं वाऽसत्यस्य लक्षणम् । '
तत्र सद्भावप्रतिषेधो नाम 'नास्ति जीवो 'नास्ति पर लोकः' इति प्रतिपादनरूपत्वम् । __ असद्भावोद्भावनं नाम श्यामातन्दुलमात्रोऽयमात्मा, अङ्गुष्ठपर्वमात्रो वा । तथा च शास्त्रप्रतिषिद्धवागनुष्ठानलक्ष. णगर्दाऽपि त्याज्या । तथाहि-हिसायुक्तं वचः सद्भता. र्थप्रतीतिकार्यपि मृपा एव, अतो हिंसानिवृत्तिपरिरक्षणार्थ मृपानिवृत्तिरुपदिष्टा।
परपरिगृहीतधनधान्यादीनामाक्रान्सा चौर्यादिलक्षणशास्त्रप्रतिषिद्धनिषेधाचरणेन वा ग्रहणरूपत्वम् , कपाया. दिप्रमादकलुषितवुझ्या परकीयाऽदत्तणादिरूपद्रव्यजात. स्यादानरूपत्वं वा स्तेयस्य लक्षणम् । ___ कपायादिप्रमादपरिणतात्मनो मोहोदये सति चेतनाऽचतनस्रोतसोरासेवनरूपत्वं, मोहोदयजनितरागपरिणामवशात् परस्परं स्वयमेव वाऽऽश्लेषजनितसुखमुपलभमानयोः स्त्रीपुंसोविलक्षणसंयोगविशेषरूपत्वं वा, उदितवेदयोः स्त्रीपुंसोः परस्परं स्वयमेव वा विलक्षणसंयोगपूर्वकशरीरालपे सति रागपरिणामरूपत्वं वाऽब्रह्मणो लक्षणम् ।