________________
जैनतत्त्वप्रदीपेजीवः शुभनामकर्म वनाति ।
दर्शनविशुद्धिविनयसंपन्नताशीलवतविषयकानतिचा• रज्ञानोपयोगसंवेगयथाशक्तित्यागतपासमाधिवैयावृत्त्याईदा.
चार्यबहुश्रुतप्रवचनभक्तिआवश्यकापरिहाणिमार्गमभावनाप्रवचनवत्सलत्वादिकं कुर्वाणो जीवस्तीर्थकरनामकर्म वनाति ।
जिनोक्ततत्त्वविषयकसम्यग्दर्शने निःशङ्कितत्वाधष्टासेवनरूपत्वं दर्शनविशुद्धेर्लक्षणम् ।।
सम्यग्ज्ञानादौ तद्वत्सु चाऽऽदरकरणरूपले सति माननिवृत्तिकरणरूपत्वं विनयसंपन्नताया लक्षणम् । । ___अयमर्थः, विनीयतेऽपनीयतेऽष्टप्रकारं कर्म येनासौ विनयः, तेन संपन्नो विनयसंपन्नः; तस्य भावो विनयसं. पन्नता । स चतुर्धा, ज्ञानदर्शनचारित्रोपचारविनयभेदात् ।
कालाऽकाळाऽध्ययनाऽनध्ययनवहुमानोपधानादि. करणरूपत्वं ज्ञानविनयस्य लक्षणम् ।
निःशङ्कनिष्कासादिभवनरूपत्वं दर्शनविनयस्य ल. क्षणम् ।
समितिगुप्तिप्रधानाचरणरूपत्वं चारित्रविनयस्य ल.. क्षणम् ।
__ अभ्युत्थानासनप्रदानाञ्जल्यादिकरणरूपत्वमुपचा: रविनयस्य लक्षणम् ।