________________
तृतीयोऽधिकारः ।
६६
सचित्ताचित्तमिश्रद्रव्येषु ममत्वलक्षणतृष्णारूपत्वं, प्रमयोगमाश्रित्य वाह्याभ्यन्तरद्रव्येषु ममेति ममत्वभावलक्षणमूर्च्छारूपत्वं, प्रमत्तयोगानुवृत्तिसामर्थ्याद् वाह्याभ्यन्तरतृष्णारूपत्वं वाह्याभ्यन्तरद्रव्यस्यार्जन रक्षण संस्कारादिव्यापारविषयकतृष्णारूपत्वं वा परिग्रहस्य लक्षणम् ।
"
एवं चोक्तपञ्चाश्रवपरित्यागरूपत्वं विरतेर्लक्षणम् । साच विरतिद्वेधा, देश- सर्वविरतिभेदात् ।
एनं मारयामीतिसंकल्पपूर्वकारम्भविषयकहिंसायाः परित्यागरूपत्वं देशतः प्राणातिपातविरतेळक्षणम् | कूटसाक्षिदानादिरूपस्थूलमृपावादपरित्यागरूपत्वं देशतो मृषावादविरतेर्लक्षणम् ।
परकीयपरिलघुवृणकाष्ठादिद्रव्याणां पतितविस्मृतादि. रूपाणामनादानरूपत्वं देशतः स्तेयविरतेर्लक्षणम् | स्वदार संतोष पूर्वकं परदाराणां विधवा - सधवा वेश्याकन्या - लक्षणानां सर्वथावर्जनरूपत्वं देशतोऽब्रह्मविरतेल" क्षणम् ।
धनधान्यादिकद्रव्याणां परिमाणकरण देशतः परिग्रह. विरतेर्लक्षणम् ।
पूर्वोक्त हिंसाऽसत्य स्तेयाऽब्रह्मपरिग्रहलक्षणानां पश्चानामाश्रवाणां सर्वथा वर्जनं सर्वविरतेर्लक्षणम् ।
अथ च तेषामेव पश्चानामाश्रवाणां सर्वथावर्जनरूपमहाव्रतानां स्थैर्यार्थमकैकस्य व्रतस्य भावनापञ्चकं क्रमेण