________________
५०
जैनतत्त्वप्रदीपेस्तावन्तः, मानकृतास्तावन्तः, मायाकृतास्तावन्न:, कोभकृताश्च तावन्तः । इति सर्वसंकलने जाता अष्टोत्तरशतम् । ____ अधिकविचारणया तु अधिका अपि भवन्ति । तथाहि, अनन्तानुवन्धिकषायकृता अष्टोत्तरशतम्, एवममत्याख्या. नकृतास्तावन्तः, प्रत्याख्यानकृता अपि तावन्तः, संज्वलनकृता अपि तावन्तः, संकलने जाता द्वात्रिंशदुत्तरा चतुःशती। एवं स्वप्रतिष्ठितान्यप्रतिष्ठितोभयप्रतिप्रितापतिष्ठितभेदैः संकलने जाता अष्टाविंशत्युत्तरसप्तशताधि. कसहस्रसङ्ख्याः । इति द्रव्यभावतो जीवाधिकरणं चिन्तितम् । ___ अथ क्रमप्राप्तमजीवाधिकरणं परामृश्यते-.
अजीवाधिकरणस्य मूलभेदाश्चत्वारः, निर्वर्तननिक्षेपसंयोगनिसर्गभेदात् । अनीवविषयकनिर्वर्तनादीन् कुर्वन् एष आत्मा सांपरायिकं कर्म वनाति । ___ तत्र निर्वर्तना द्विविधा, मूलोत्तरगुणनिर्वर्तनाभेदात् । तत्र मूलगुणनिर्वर्तनाधिकरणं पश्चविधं शरीरं वाङ्-मन:प्राणापानादिकं च । उत्तरनिर्वर्तनाधिकरणं काष्ठकर्मादिरूपम् । तच लक्षणतो निगद्यते___ औदारिकशरीरप्रायोग्यवर्गणाव्यनिर्मापितं यदौदाः रिकसंस्थानं तत् प्रथमसमयादारभ्य मूलगुणनिर्वर्तना. धिकरणं भवति, कर्मबन्धनिमित्तत्वात् । तादृशौदारिकस्या