________________
तृतीयोऽधिकारः ।
उक्तं द्रव्याधिकरणं लक्षणविधानतः । अथ भावाधिकरणमुच्यते
तत्र भावस्तीवादिरूपात्मपरिणामः स एवाधिकरणं भावाधिकरणम् । तच्चाष्टोत्तरशतभेदभिन्नं भवति, तथाहि, जीवाधिकरणं संक्षेपतस्त्रिविधं संरम्भसमारम्भारम्भभेदात् । लक्षणं तु तेषां निगद्यते.
माणातिपातादिविषयक संकल्पविशरूपत्वं संरम्भस्य लक्षणम् ।
प्राणातिपातादिविषयक साधन सन्निपातजनितपरितापनादिरूपत्वं समारम्भस्य लक्षणम् । प्राणातिपातादिरूपक्रिया निर्वृत्तिरूपत्वमारम्भस्य लक्ष
1
णम् ।
४६
समारम्भादिरूपाधिकरणमपि प्रत्येकं त्रिविधम्, मनोवाक्कायभेदात् ; तथा च मनःसंरम्भाधिकरणं वचःसंरम्भाधिकरणं कायसंरम्भाधिकरणम् । एवं समारम्भारम्भाधिकरणयोरपि ज्ञातव्यम् । इति नव भेदाः संजाताः । पुनरपि कृतकारिताऽनुमोदनभेदतो ये भेदा भवन्ति तेऽपि प्रतिपाद्यन्ते, तथाहि, कृतकायसंरम्भः, कारितकाय संरम्भः, अनुमोदितकायसंरम्भश्च । एवं वाङ्मनः संरम्भयोरपि ।
•
इति संरम्भमादाय नवभेदाः, आरम्भमादायापि नव भेदाः, संकलने जाताः सप्तविंशतिः । तत्रापि क्रोधकृता