________________
जनतत्त्वप्रदीपे
तश्चांधिकरणं द्विविधम्, द्रव्याधिकरणभावाधिकरण मे' दात् । तत्र द्रव्याधिकरणं दशधा, च्छेदन-दहन-मारण- उपघात-स्नेह-क्षाराम्लानुपयुक्तमनोवाक्कायलक्षणाधिकरण
४८
भेदात् ।
तदेव च लक्षणद्वारा प्रतिपाद्यते - प्राणिपादादीनां परश्वादिना च्छेदन करणरूपत्वं छेदनाधिकरणस्य लक्षणम् -
सचेतनाऽचेतनानां वह्निना दाहरणरूपत्वं दहना saकरणस्य लक्षणम् |
सचेतनानां विषादिप्रयोगेण मारणरूपत्वं मारणाधिकरणस्य लक्षणम् ।
पृथिवीकायादीनामुपघातकरणरूपत्वमुपघाताधिकर
णस्य लक्षणम् ।
घृततैलादिस्नेहेन तेषामेवोपघातकरणरूपत्वं स्नेहाधिकरणस्य लक्षणम् |
क्षारेण सकलत्वग्मांसाद्य कर्त्तनरूपत्वं क्षाराधिकरणस्य लक्षणम् ।
आरनालाद्यम्लेन पृथिवीकायोपघातकरणरूपत्वमम्oाधिकरणस्य लक्षणम् ।
अनुपयुक्तः सन् मनोवाक्कायादिना यां यां चेष्टां निर्वर्तयति तया तथा कर्म बध्यत इत्येवंरूपत्वमनुपयुक्तमनोवाक्कायलक्षणाधिकरणस्य लक्षणम् ।