________________
प्रथमोऽधिकारः ।
१५
अनन्तानुबन्धिमिध्यात्वयोः सर्वघातिस्पर्धकानामुदीर्णस्य क्षयेऽनुदीर्णस्योपशमे च देशघातिनामुदये च सति जातं यत् तत्वार्थश्रद्धानं तद्रूपत्वम्, उदीर्णस्य क्षयेऽनुदी - र्णस्य चोपशमे सति, अशुद्धखस्य मदेशोदये सति शुद्धस्य तस्य विपाकोदयरूपत्वं वा क्षायोपशमिकसम्यक्त्वस्य लक्षणम् । द्वादशकपायाणामुदीर्णस्य क्षयेऽनुदीर्णस्योपशमे च संज्वलन - नोकापाययोर्यथासंभवमुदये च सति सावद्येयोगेभ्यः सर्वथानिवृत्तिपरिणामरूपत्वं क्षायोपशमिकचारित्रस्य लक्षणम्, अथवा, अन्तराय सर्वघातिस्पर्धकानामुदीर्णस्य क्षये, अनुदीर्णस्योपशमे च देशघातिस्पर्धकानामुदये च सति सर्वविरतिपरिणामरूपत्वं
तत् । कपायाष्टकसर्वघातिस्पर्धकानामुदर्णिस्य क्षयेऽनुदीर्णस्योपशमे च प्रत्याख्यानादिदेशघातिनां यथासंभवमुदये च सति देशतो त्रिरतिलक्षणपरिणामरूपत्वं देशविरतेर्लक्षणम् ।
1
अत्र क्षायोपशमिकभावलक्षणघटक स्पर्धकस्य अविभागपरिच्छिन्नकर्मप्रदेशानुभागमचयश्रेणिक्रमहा निवृद्धिरूपत्वं लक्षणम् | स्वरूपमप्यस्य संक्षेपतो यथा - एकसमयोपात्ते कर्मस्कन्धे येऽणवः सर्वापिष्ठरसयुक्तास्तेऽपि च्छिद्यमानरसांशकः सर्वजीवानन्तगुणान् रसांशान् प्रयच्छन्ति । एतेषां चाल्परसाणूनां समुदायः प्रथमवर्गणा । अन्यापे