________________
जैनतत्वप्रदीपेक्षयात्र भूयांसोऽणवो रसास्तु स्तोकाः । तेषामणूनामेकेन रसांशेनाधिकानां समुदायो द्वितीया वर्गणा । इयं च वर्गणा आद्यवर्गणायाः परमाणवपेक्षया हीना रसांशापे. क्षयाऽधिका । एवं रसविभागभागानामे फैकस्य वृद्धितः, परमाणूनां वर्गणा तावद्वाच्या यावदभव्येभ्योऽनन्तगुणा सिद्धानन्तांशमिता । तत्र सर्वाद्यवर्गणापेक्षया सर्वान्त्यवर्ग: णोणवोऽनन्तगुणाधिकान् रसभागान् प्रयच्छन्ति । तासां वर्गणानां समुदायः स्पर्धकमुच्यते।।
औदयिकभावोऽप्येकविंशतिविधः, गतिकपायलिङ्गमिथ्यात्वाज्ञानासिद्धत्वासंयतलेश्याभेदात् । तत्र
गतिनामकर्मोदयात् विवक्षितभवाद् भवान्तरगमनयोग्यत्वं गतेलक्षणम् ।
चारित्रमोहोदयात् कलुपितभावरूपत्वं कपायस्य लक्षणम् ।
वेदोदयजन्यत्वे सति मैथुनेच्छारूपत्वं लिगस्य लक्षणम् । अतचे तत्त्वबुद्धिरूपत्वं मिथ्यादर्शनस्य लक्षणम् । मिथ्यात्वमोहोदये सति अतत्वज्ञानरूपत्वमज्ञानस्य लक्षणम् ।
कर्मोदयमभवत्वमसिद्धस्य लक्षणम् । • अप्रत्याख्यानावरणीयादिकषायोदये सति सावर योगाद् विरत्यभावरूपत्वमसंयतस्य लक्षणम् ।