________________
जैनतत्त्वप्रदीपे____ उपभोगान्तरायक्षयप्रभवत्वे सति विषयसंपदि सत्याँ तथोत्तरगुणप्रकत्तिदनुभवरूपत्वं सायिकोपभोगस्य लक्ष. णम्, उपभोगान्तरायक्षयप्रभवत्वे सति च्छत्र-चामरादिमा. तिहार्यादीनां पुन: पुनरुपभुज्यमानत्वं वा। । वीर्यान्तरायक्षयप्रभवाप्रतिहतशक्तिविशेषरूपत्वं क्षायिकवीर्यस्य लक्षणम् ।
क्षायिकदानादिपञ्चकस्य लक्षणान्तराण्यपिदानान्तसयात्यन्तक्षयप्रभवत्वं क्षायिकदानस्य लक्षणम्। लाभान्तरायात्यन्तक्षयप्रभवत्वं क्षायिकलाभस्य लक्षणम्। भोगान्तरायक्षयप्रभवत्वं क्षायिकभोगस्य लक्षणम् । उपभोगान्तरायक्षयप्रभवत्वं क्षायिकोपभोगस्य लक्षणम्। वीर्यान्तरायक्षयप्रभवत्वं क्षायिकवीर्यस्य लक्षणम् ।
क्षायोपशमिकोऽष्टादशविधः, ज्ञानाज्ञानदर्शनदानादिलब्धिसम्यक्त्वचारित्रसंयमासंयमभेदात् । तत्र
मतिज्ञानावरणादिक्षयोपशमप्रभवत्वं क्षार्योपशमिकज्ञानस्य लक्षणम् ।
कुत्सितज्ञानरूपत्वं ताशाज्ञानस्य लक्षणम् ।
दर्शनावरणक्षयोपशमजन्यत्वं क्षायोपशमिकदर्शनस्य लक्षणम् ।
अन्तरायकर्मक्षयोपशमजन्यत्वं क्षायोपशर्मिकदानादिलब्धेलक्षणम् ।