________________
जैनतत्त्वप्रदीपेर्मोनायकाध्यवसायविशेषरूपत्वम्, अनेकधर्मकदम्बकोपे. तवस्तुनो धर्मान्तरोदासीन्यपूर्वकैकधर्मेणावधारणात्मका. ध्यवसायविशेषरूपत्वम्, प्रकृतवस्त्वंशग्राहीतरांशापतिक्षे. प्यध्यवसायविशेषरूपत्वं वा नयस्य लक्षणम् ।
स च देधा, द्रव्यार्थिक-पर्यायार्थिकभेदात् । तत्र
प्राधान्येन द्रव्यमानग्राध्यवसायविशेषरूपत्वं द्रव्या. र्थिकस्य लक्षणम् ।
उत्पाद-विनाशादिपर्यायमात्र ग्राह्यध्यवसायविशेषरूपत्वं पर्यायार्थिकस्य लक्षणम् । तत्र द्रव्याथिकस्त्रेधा, नैगम-संग्रह-व्यवहारभेदात् । तत्र
देशसमग्रग्राह्यध्यवसायविशेषरूपत्वम्, सामान्यविशे. पोभयाऽभ्युपगमपराध्यवसायविशेषरूपत्वम्, प्रत्यक्षादिनमाणेघट-पटादिवस्तूनां पृथक्पृथक्करणनिमित्तायोधानुसारिवचनविशेषरूपत्वम्, लोकार्थनिबोधविपयकुशलाध्यव. सायविशेषरूपत्वम्, संकल्पयोनिरूपत्वम्, विचित्रपरिच्छेदकत्वं वा नैगमस्य लक्षणम् ।
सामान्यवस्तुसत्तासंग्राहकाध्यवसायषिशेपरूपत्वम्, नेगमायुपगतार्थसंग्रहप्रवणत्वे सत्यध्यवसायविशेपरूपत्वं
१ संग्रहप्रवणत्वं नाम तन्नियतबुद्धिव्यपदेशजनकत्वम्, संगृही. तपिण्डितार्थाभ्युपगमपराध्यवसायविशेपरूपत्वं वा । संगृहीतम् = सामान्याभिमुखग्रहणगृहीतम् , महासामान्य वा; पिण्डित=विवक्षितै. कुजात्युपरागण प्रतिपिपादयिपितम्, सामान्यविशेषरूपत्वं वेत्यर्थः ।