________________
( ११ )
:
एडल विष्कम्भविधिः, मेरुचंद्रांत प्रमाणं च सूर्यवत्प्रत्येतव्यं । पंचदशानां मण्डलानामन्तराणि चतुर्दश । तत्रैकैकस्य मण्डलान्तरस्य प्रमाणं पंचत्रिशत योजनानि योजनैक षष्ठिभागात्रिंशत्तद्भागस्य चत्वारः सप्तभागाः ३५ - ३० - ४ । सर्वाभ्यन्तरमण्डले पंचसहस्राणि त्रिसप्तत्यधिकानि योजनानां ६१-७ सप्तसप्ततिर्भागशतानि चतुश्चत्वारिंशानि मण्डलं त्रयोदशभिर्भागसहस्रैः सप्तभिश्च भागशतैः पंचविशेः स्थित्वा भवशिष्टानि । चन्द्रः एकैकेन मुहूर्तेन गच्छति सर्वबाह्यमण्डले पंचसहस्राणि शतं च पंचविंशं योजनानां एकान्नसप्ततिर्भागशतानि नवत्यधिकानि मण्डलं त्रयोदशभिः भागसहस्रैः सप्तभिश्च भागशतैः पंचर्विशैः स्थित्वा अवशिष्टानि चन्द्रः एकैकेन मुहूर्तेन गच्छति । दर्शनविषयपरिमाणं सूर्यवद्वेदितव्यं । हानिवृद्धिविधानं च यथागमं अवसेयं । पंचयोजनशतानि दशोत्तराणि सूर्याचंद्रमसोश्चारक्षेत्र विष्कम्भः ॥
गतिमज्योतिःसंबंधेन व्यवहार कालप्रतिपत्यर्थमाह----
तत्कृतः कालविभागः ॥ १४ ॥ तदिति किमर्थं ? ॥ गतिमज्ज्योतिः प्रतिनिर्देशार्थं तद्वचनं ॥ १ ॥ - गतिमतां ज्योतिषां प्रतिनिर्देशार्थं तदित्युच्यते । नहि केवलगत्या नापि केवलैज्योतिर्भिः कालः परिच्छद्यते, अनुपलब्धेरपरिवर्तनाच । ज्योतिः परिवर्तनलभ्यो हि काकपरिच्छेदः । कालो द्विविधः व्यावहारिको मुख्यश्च । तत्र व्यावहारिकः काळ विभागः तत्कृतः समयावलिकादिर्व्याख्यातः । क्रियाविशेषपरिच्छिन्नः अन्यस्यापरिच्छिन्नस्य परिच्छेदहेतुः मुख्योऽन्यो वक्ष्यमाणलक्षणः । माह न मुख्यः कालोऽस्ति सूर्यादिगतिव्यतिरिक्तो लिंगाभावात् । अपिच कळानां समूहः कालः | कलाध क्रियावयवाः । किंच पंचास्तिकायोपदेशात् पंचैवास्तिकाया भागमे उपदिष्टाः न षष्ठः । ततो न मुख्यः कालोस्ति इत्यपरीक्षिताभिधानमेतत्-यत्तावदुक्तं लिंगाभावान्नास्ति मुख्यः कालः इत्यत्रोच्यते क्रियायां काल इति गौणव्यवहारदर्शनात मुख्यसिद्धिः । योयमादित्यगमनादौ क्रियेति रूढेः कालहति व्यवहारः कालनिर्वर्तनापूर्वकः मुख्यस्य