________________
कालस्यास्तित्वं गमयति । न हि मुख्ये गव्यसति वाहीके गौणे गोशब्दस्य व्यवहारो युज्यते ॥
अत एव न कलासमूह एव कालः ।। २ ।। अत एव, कुतएव ? मुख्यस्य कालस्यास्तित्वादेव, कलानां समूह एव काल इति व्यपदेशो नोपपद्यते । करप्यते क्षिप्यते प्रेयते येन क्रियावद्व्यं स कालस्तस्य विस्तरेण निर्णय उत्तरत्र वक्ष्यते ।
प्रदेशप्रचयाभावादस्तिकायेष्वनुपदेशः ॥ ३ ॥ प्रदेशपचयो हि कायः स एषामस्ति ते अस्तिकाया इति जीवादयः पंचैव उपदिष्टाः । कालस्य त्वेकप्रदेशत्वादस्तिकायत्वाभावः । यदि हि अस्तित्वमेव अस्य न स्यात् षड्द्रव्योपदेशो न युक्तः स्यात् । कालस्य हि द्रव्यत्वमस्त्यागमेऽपरलक्षणाभावः स्वलक्षणोपदेशसद्भावात् ॥ इतरत्र ज्योतिमामवस्थाप्रतिपादनार्थमाह--
बहिरवस्थिताः ॥ १५ ॥ वहिरित्युच्यते कुतोवहिः ? नृलोकात । कथमवगम्यते ? अर्थवशाद्विभक्ति परिणाम इति ॥
नृलोके नित्यगतिवचनादन्यत्रावस्थानसिद्धिरितिचेन्नोभयासिद्धेः॥१॥ स्यान्मतं नृलोके नित्यगतयः इतिवचनात अन्यत्र अवस्थान ज्योतिषां सिद्धं अतो बाहरवस्थिता इति वचनमनर्थक, इतितन्न किं कारण? उभयासिद्धः नलोकादन्यत्र बहिर्योतिषामस्तित्वमवस्थानं चाऽप्रसिद्धं अत. स्तदुभयसिद्धयर्थं "वहिरवस्थिताः" इत्युच्यते । असति हि वचने नृलोके एव सन्ति नित्यगतयश्च इत्यवगम्येत । .
___ श्रीमान पं. पन्नालालजी दूनीवाले और पं. फत्तेलालजी कृत रानः वार्तिकका हिंदी अनुवाद ( तत्वकौस्तुभ ) अध्याय चतुर्थ__ तृतीय निकायकी सामान्य तथा विशेष संज्ञाका संकीर्तनकै अर्थ कहे है, सूत्र