________________
(९)
भनेकान्ताच्च ॥३॥-यथा सर्वभावेषु द्रव्यार्थादेशात् स्यानित्यत्वं, पर्यायार्थादेशात् स्यादनित्यत्वं । गतावपीति नित्यत्वमविरुद्धमविच्छेदात् ।
नलोकग्रहणं विषयार्थ ॥ ४ ॥ ये अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयो?तिष्कास्ते मेरुप्रदक्षिणा नित्यगतयः नान्ये इति विषयावधारणार्थ नृलोकग्रहणं क्रियते ।।
गतिकारणाभावादयुक्तिरिति चेन्न गतिरताभियोग्यदेववहनात् ॥ ५ ॥-स्थानमतं इहलोके भावानां गतिः कारणवती दृष्टा नच ज्योतिष्कविमानानां गतेः कारणमस्ति ततस्तदयुक्तिरिति तन्न । किंकारणं गतिरताभियोग्यदेववहनात् । गतिरता हि आभियोग्यदेवा वहतीत्युक्त पुरस्तात् ।
कर्मफलविचित्रभावाच ॥६॥ कर्मणां हि फलं वैकियेण पच्यते ततस्तेषां गतिपरिणतिमुखेनैव कर्मफलमवबोद्धव्यं । एकादशभिः योननशतैरेकविशेमरुमप्राप्य ज्योतिष्का प्रदक्षिणाश्चरन्ति । तत्र जंबुद्वीपे द्वौ सूर्यो, द्वौ चन्द्रमसौ, षट्पंचाशत नक्षत्राणि, षट्सप्तत्यविकं ग्रहशतं, एककोटीकोटिशतसहस्त्रयस्त्रिंशतकोटीकोटिसहखाणि . नवकोटीकोटिशतानि पंचाशच कोटीकोट्यस्तारकाणां । लवणोदे चत्वारः सूर्याः चत्वारश्चद्राः, नक्षत्राणां शत, द्वादशग्रहाणां, त्रीणि शतानि द्वापंचाशानि द्वे कोटी कोटिशतसहस्रे सप्तषष्ठिः . कोटीको टिसहस्त्राणि नवच कोटीकोटिशतानि तारकाणां । धातकीखण्डे द्वादशसूर्याः, द्वादशचंद्राः, नक्षत्राणां त्रीणिशतानि, घनिशानि ग्रहाणां, सहस्रं षट्पचाश अष्टौ कोटीकोटिशतसहस्राणि सप्तत्रिंशच्च कोटीकोटिशतानि तारकाणां । कालोदे द्वाचत्वारिंशदादित्याः द्वाचत्वारिंशचन्द्राः, एकादश नक्षत्रशतानि, पट्सप्तत्यधिकानि पर्शिशतग्राशतानि षण्णवत्यधिकानि अष्टाविंशतिः कोटीकोटिशतसहस्राणि द्वादश कोटीकोटिसहस्राणि नव कोटीकोटिशतानि पंचाशत्कोटीकोव्यस्तारकाणां । पुष्करार्धे द्वासप्ततिः