________________
नायामविष्कंभाण्यतृतीयधनुःशतवाहुत्यानि । नवमल्लिकाप्रमाणि रजतपरिणामानि शुक्रविमानानि गव्यूलायामविक्रमाणि, जात्यमुक्ताद्युतीनि अंकमणिमयानि बृहस्पतिविमानानि देशोनगव्यूतायामविष्कमाणि, कनकमयान्यर्जुनवर्णनानि, बुधविमानानि, तपनीयमयानि, तप्ततपनीयाभानि,
शनैश्चरविमानानि, लोहिताक्षमयानि तप्तकनकप्रभाण्यंगारकविमानानि, 'बुधादिविमानान्यधन्यूनायामविष्कंभाणि । शुक्रादिविमानानि गहुविमानतुल्यबाहुल्यानि । राहादिविमानानि प्रत्येकं चतुभिर्देवसहरुह्यन्ते । नक्षत्रविमानानां प्रत्येकं चत्वारि देवसहस्राणि वाहकानि । तारकविमानानां प्रत्येकं द्वे देवसहले वाहके । राहयाभियोग्यानां रूपविकाराश्चंद्रवन्नेयाः । नक्षत्रविमानानां टस्कृष्टो विकभः क्रोशः | तारकाविमानानां वैपुल्य जघन्य क्रोशचतुभार्गः मध्यम साधिकः क्रोशचतुर्भागः। उत्कृष्ट उर्धगव्यूतं । ज्योतिष्कविमानानां सर्वजधन्यवैपुल्य पंचधनुःशतानि । ज्योतिषामिंद्राः सूर्याचन्द्रमसस्ते चाऽसंख्याताः । ज्योतिप्काणां गतिविशेषप्रतिपत्त्यर्थमाहमेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥
(श्री उमास्वामि कृत) . मेरुप्रदक्षिणवचनं गत्यंतरनिवृत्त्यर्थं ॥ १ ॥- मेरोः प्रदक्षिणाः - मेरुपदक्षिणा इत्युच्यते । किमर्थ ? गत्यंतर निवृत्त्यर्थं विपरीता गतिर्मा
भूत् । - गतेः क्षणेक्षणेऽन्यत्वात नित्यत्वाभाव इति चेनाऽऽभीक्ष्ण्यस्य
विवक्षितत्वात् ॥ २ ॥-अयंनित्यशब्दः कूटस्थेष्व विचलेपु भावेषु वर्तते • गतिश्च क्षणेक्षणेऽन्या, ततोऽम्या नित्येति विशेषणं नोपपद्यत इति चेन्न । । किंकारणं ? आभीक्ष्ण्यस्य विवक्षितत्वात् । यथा नित्यपहसितो नि यप्रजापित इति आभीक्ष्ण्यं गम्यत इति । एवमिहापि नित्यगतयः अनुपर..तगतयः । इत्यर्थः ।