________________
( ७ )
इस्त्रोच्यते अस्मात् समात् भूमिभाग दूर्ध्वं सप्तयोजनशतानि नवत्युत्तराणि उत्प्लुत्य सर्वज्योतिषाँ अधोमाविन्यस्तारकाश्चरति । ततो दशयोजनान्युप्लुन्य सूर्याश्वरं ति । ततोऽशीतिर्योजनान्युत्प्लुत्य नक्षत्राणि । ततस्त्रीणि योजनानि उत्प्लुत्य बुधाः । ततस्त्रीणि योजनानि उत्प्लुय शुक्राः । ततः त्रीणि योजनान्युत्प्लुत्य अंगारकाः । ततः चत्वारि योजनाभ्युत्क्रम्य शनैश्चराश्चरन्ति । स एष ज्योतिर्गणगोचरः नभोऽवकाशः दशाधिकयोजनशत ' बहुल: तिर्यगसंख्यातद्वीपसमुद्रप्रमाणो घनोदधिपर्यंतः । उक्तं च
णवदुत्तरसत्तमया दससीदिच्चदुतिंग च दुग चदुक्कं ॥ तारारविससिरिक्खाबुहभग्गवगुरुअंगिरारसणी ॥ १ ॥
तत्रःभिजित् सर्वाभ्यंतरचारी, मूल: सर्वबहिश्चारी, भग्ण्यः सर्वाध - श्चारिण्यः, स्वातिः सर्वोपरिचारी । तप्ततपनीयसमप्रभाणि लोहिताक्षमणिमयानि अष्टचत्वारिंशद्योननैकपष्टि विष्कंभायामानि तस्त्रिगुणाधिकपरिधीनि चतुर्विंशतियोजनै कप'ष्ठमागवा हुल्यानि अर्धगोलक कृती नि षोडशभिर्देव सहस्त्रानि सूर्यविमानानि, प्रत्येकं पूर्वदक्षिणोत्तरप्न भागान् क्रमेण सिंह कुज वृषभ तुग्गरूपाणि विकृत्य चत्वारि चत्वारि देवसहस्राणि वर्हति । एषामुपरि सूर्याख्या: देवास्तेषां प्रत्येकं चतस्त्र प्रमहिष्यः । सूर्यप्रभा सुसीमा अर्चिमालिनी प्रमंकरा चेति । प्रत्येकं देवीचतुःसहस्रविकरणसमर्थाः । ताभिः सह दिव्यसुखमनुभवतोऽसंख्येयशतसहस्राधिपतयः सूर्यः परिभ्रमंति विमलमृणालवर्णान्यकमयानि चंद्र विमानानि षट्पंचाशद्यो जनै कषष्टिभागविष्कंभायामानि अष्टाविंशतियोजनैकप ष्ठिभागवाहुल्यानि, प्रत्येकं षोडशभिः देवसहस्रः पूर्वादिपु दिक्षु क्रमेण सिंहकुंजराश्ववृषभरूप विकारिमिरूढानि । तेषामुपरि चंद्राख्या देवाः । तेषां प्रत्येकं चतस्रोऽग्रमहिष्यः चंद्रप्रभा सुसीमा अर्चिमालिनी प्रभंकरा चेति, प्रत्येकं चतुर्देवी विकरणपटवरसाभिः सह सुखमुपभुं जंतश्चन्द्रमसोऽसंख्येय विमानशतसहस्त्राधिपतयो विहरन्ति । अंजनसमप्रभाणि अरिष्टमणिमयानि, राहु विमानान्येक योज
-