________________
, ज्योतिःशब्दात्स्वार्थ के निष्पत्तिः ॥ २॥-ज्योतिःशब्दात् स्वार्थ के सति ज्योतिष्का इति निष्पद्यते । कथं स्वार्थे कः ? यवादिपु पाठात् ।
प्रकृतिलिंगानुवृत्तिप्रसंग इति चेन्नातिवृत्तिदर्शनात् ॥ ३ ॥स्यान्मतं यदि स्वार्थिकोऽयं कः ज्योतिःशब्दस्य नपुंसकलिंगत्वात् कांतस्यापि नपुंपकलिंगता प्रामोतीति ? तन्न । किंकारणं, अतिवृत्तिदर्शनात् । प्रकृतिलिंगातिवृत्तिरपि दृश्यते यथा कटीरः समीरः शुडार इति ।।
तद्विशेषाः सूर्यादयः ॥ ४ ॥-तेषां ज्योतिष्काणां सर्यादयः पंच विकल्पाः दृष्टव्याः ।
पूर्ववत्तनिर्वृत्तिः ॥ ५ ॥- तेषां संज्ञाविशेषाणां पूर्ववन्निवृत्तिवेदि. तव्या देवगतिनामकर्मविशेषोदयादिति ।
सूर्याचंद्रमसावित्यानन्देवताद्वंद्वे ॥ ६॥ सूर्यश्च चंद्रमाश्च द्वंद्वे कृते पूर्वपदस्य देवताटे इत्यानम् भवति ।
सर्वत्रप्रसंगइतिचेन्नपुनद्वग्रहणादिष्टे वृत्तिः ॥ ७ ॥-स्यादेतत् यदि " देवताद्वंद्वे " इत्यानञ् भवति इहापि प्राप्नोति ग्रहनक्षत्रप्रकीर्णकताराः किन्नरकिंपुरुषादयः असुरनागादय इति तन्न किं कारण ? आनन् द्वंद्व इत्यतः द्वंद्व इति वर्तमाने पुनर्द्वन्द्ववृत्तिर्जायते इति ।
पृथग्रहणं प्राधान्यख्यापनार्थ ॥ ८ ॥ सूर्याचंद्रमसोर्ग्रहादिभ्यः पृथक् ग्रहणं क्रियते प्राधान्यख्यापनार्थ । ज्योतिप्केषु हि सर्वेषु सूर्याणां चंद्रमसां च प्राधान्यं । किंकृतं पुनस्तत् ? प्रभावादिकृतं ।
सूर्यस्यादौ ग्रहण अल्पाच्तरत्वात अभ्यर्हितत्वाच ॥ ९॥सूर्यशब्द भादौ प्रयुज्यते कुतः अत्याच्तरत्वात् अभ्यहितत्वाच्च सर्वाभिभवसमर्थाद्धि अभ्यर्हितः सूर्यः । . ग्रहादिषु च ॥ १० ॥- किमरुपान्तरत्वात् अभ्यर्हितत्वाच पूर्वनिपातः इति वाक्यशेषः । ग्रहशब्दस्तावत् अल्पाचतरोऽभ्यहितश्च तारकाशब्दान्नक्षत्रशब्दोऽभ्यर्हितः । क पुनस्तेषां निवासः ?