SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. १ पा० २ सू० ११७-१२१] महावृत्तिसहितम् स्याप्याधारस्याधिकरणत्वम् । कर्तृकर्मणोः सत्यपि क्रियाधारत्वेऽनवकाशत्वात् कर्तृकर्मसज्ञे भविष्यतः । भेदविवक्षायामधिकरणत्वमपि । अशनक्रिया देवदत्तं वर्तते । विक्ल दनं तण्डुलेषु । "औपश्लेषिकवैषयिकाऽभिव्यापक इत्यपि । आधारस्विविधः प्रोक्तः कटाकाशतिलेषु च ॥" औपश्लेषिकः-कटे आस्ते । स्थाल्यां पचति । वैषयिकः-श्राकाशे शकुनयः । गङ्गायां धोषः । गुरौ वसति । यदधीना यस्य स्थितिः स तस्याधारः । अभिव्यापको विभागाप्रतीतेः। तिलेषु तैलम् । दधनि सर्पिः। अधिकरणप्रदेशाः "ईबधिकरणे च" [॥४॥४४] इत्येवमादयः। कर्मैवाऽधिशीङस्थाऽसः॥१।२।११७॥ अधिपूर्वाणां शीङ् स्था श्रास् इत्येषामाधारो यस्तत् कारक कर्मसज्ञमेव भवति । ग्राममधिशेते । पर्वतमधितिष्ठति । प्रासादमध्यास्ते । एवकारः पुल्लिङ्गाऽधिकरणसंशासमावेशनिवृत्त्यर्थः । कर्मप्रदेशाः "कर्मणीप्" [१।४।२] इत्येवमादयः । वसोऽनूपाध्याः ॥१।२।११८॥ अनु उप अधि प्राङ् इत्येवम्पूर्वस्य वसतेराधारो यस्तत् कारक कर्मसंज्ञ भवति । ग्राममनवसति । गिरिमुपवसति । गृहमधिवसति । वनमावसति । इह कथं ग्रामे उपवसति । भोजननिवृत्ति करोतीत्यर्थः १ अत्रापि त्रिरात्रादेराधारस्य कर्मत्वं प्रतीयते । अभिनिविशश्च ॥१।२११६॥ अभिनि इत्येवंपूर्वस्य विशतेराधारो यस्तत् कारक कर्मसंज्ञ भवति । ग्राममभिनिविशते । गेहमभिनिविशते । चकारात् क्वचिदधिकरणसंज्ञाऽपि भवति । या या संज्ञा यस्मिन्नभिनिविशते । अर्थेष्वभिनिविष्टः । कल्याणेऽभिनिवेशः। कप्यिम् ॥१।२।१२०॥ कर्ता क्रियया यदाप्यं तत् कारकं कर्मसंज्ञ भवति । कर्तृ ग्रहणादाप्यग्रहणसामर्थ्याद्वा क्रिया लभते । तत्र कर्म । "प्राप्यं विषयभूतं च नित्यं विक्रियात्मकम् । कर्तुश्च क्रियया व्याप्यमीप्सितानीप्सितेतरत् ॥" प्राप्यवसामान्यं सर्वत्र विद्यते । प्राप्यम्-ग्रामं गच्छति । आदित्यं पश्यति । विषयभूतम्-जैनेन्द्रमधीते । हिमवन्तं शृणोति । निर्वयम्-घटं करोति । श्रोदनं पचति । विक्रियात्मकम्-काष्ठानि दहति । घटं भिनत्ति । ईप्सितम-गुडं भक्षयति । श्रोदनं भुत । अनीप्सितम्-ग्राम गच्छन् व्याघ्र पश्यति । कण्टकान. मृगाति । अनुभयम्-ग्रामं गच्छन् वृक्षमूलान्युपसर्पति । कति किम् ? मापेष्वश्वं बध्नाति । अश्वेन कर्मणा भक्षणक्रियया माषाणामाप्यानां कर्मसंज्ञा मा भूत् । अथ सवाणि कारकाणि कर्नाऽप्यन्त इति कर्मसंज्ञा प्राप्नोति ? नैष दोषः। सर्वेषु कारकेष्वाप्येषु प्राप्यग्रहणसामर्थ्यादाप्यतमे संप्रत्ययः । तेन करणादिषु न भवति । पयसा श्रोदनं भुङक्त । इह कथं कर्मत्वं गेहं प्रविशतीति ? श्राधारस्याविवनया। अकथितश्च ।।१।२।१२१।। अकथितमसङ्कीर्तितम् । अपादानादिभिर्विशेषकारकादिभिरकथितं च यत कारकं तत कर्मसंज्ञभवति । अकथितमप्रधानमिति गृह्यमाणे इह देवदत्ताद गां याचत इत्यप्रधानतयाऽपादानसंज्ञा कर्मसंज्ञया बाध्येत । "दुहियाचिरुधिप्रच्छिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना ।" दुहि-गां दोन्धि पयः । गौः कारकमपादानत्वेनासङ्कीर्तितमपायस्याविवक्षितत्वात् । गोरप्याप्यत्वेन सिद्ध' कर्मलमिति चेत परिगणनार्थमिदं वक्तव्यम् । इह मा भूत् । नटस्य शृणोति श्लोकम् । याचि-माणवकं गां याचते। याचनमात्रेणापायस्याविवक्षितत्वात् । रुधि-गामवरुणद्धि व्रजम् । सतोऽप्याधारस्याक्विचा। अन्दरा कन्येति यथा । प्रच्छि-श्राचार्य धर्म पृच्छति । प्रश्नमात्रेणापायस्याविवक्षा। भिति-देवदत्तं गां मितते । चित्र-मनमवचिनोति फलानि । उपयोगनिमित्तं प्रयोगनिमित्तम् । अथवा उपयोगो दुग्धादि तन्निमितं गवादि। इडापि तहि स्यात। पाणिना कांस्यपान्यां दोग्धि। पाण्यादिकमप्युपयोगनिमित्तमित्याह ।। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy